Vana Parva, Adhyaya 60, Verse 1
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा
अबुध्यत वरारोहा संत्रस्ता विजने वने
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा
अबुध्यत वरारोहा संत्रस्ता विजने वने
सापश्यमाना भर्तारं दुःखशोकसमन्विता
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने
ननु नाम महाराज धर्मज्ञः सत्यवागसि
कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः
कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम्
विशेषतोऽनपकृते परेणापकृते सति
शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर
यास्त्वया लोकपालानां संनिधौ कथिताः पुरा
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ
भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे
नृशंसं बत राजेन्द्र यन्मामेवंगतामिह
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव
न शोचाम्यहमात्मानं न चान्यदपि किंचन
कथं नु भवितास्येक इति त्वां नृप शोचिमि
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना
इतश्चेतश्च रुदती पर्यधावत दुःखिता
मुहुरुत्पतते बाला मुहुः पतति विह्वला
मुहुरालीयते भीता मुहुः क्रोशति रोदिति
सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत्
अपापचेतसं पापो य एवं कृतवान्नलम्
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम्
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः
अन्वेषति स्म भर्तारं वने श्वापदसेविते
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः
हा हा राजन्निति मुहुरितश्चेतश्च धावति
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः
सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता
नात्मानं शोचति तथा यथा शोचति नैषधम्
हा नाथ मामिह वने ग्रस्यमानामनाथवत्
ग्राहेणानेन विपिने किमर्थं नाभिधावसि
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध
कः श्रमं राजशार्दूल नाशयिष्यति मानद
तामकस्मान्मृगव्याधो विचरन्गहने वने
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह
तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्
त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः
मुखतः पातयामास शस्त्रेण निशितेन ह
निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः
मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च
समाश्वास्य कृताहारामथ पप्रच्छ भारत
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि
दमयन्ती तथा तेन पृच्छ्यमाना विशां पते
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत