Vana Parva, Adhyaya 59, Verse 1
यथा राज्यं पितुस्ते तत्तथा मम न संशयः
न तु तत्र गमिष्यामि विषमस्थः कथंचन
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
यथा राज्यं पितुस्ते तत्तथा मम न संशयः
न तु तत्र गमिष्यामि विषमस्थः कथंचन
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः
परिद्यूनो गमिष्यामि तव शोकविवर्धनः
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः
सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम्
तावेकवस्त्रसंवीतावटमानावितस्ततः
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः
तां सभामुपसंप्राप्य तदा स निषधाधिपः
वैदर्भ्या सहितो राजा निषसाद महीतले
स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले
दमयन्त्यपि कल्याणी निद्रयापहृता ततः
सहसा दुःखमासाद्य सुकुमारी तपस्विनी
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा
मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित्
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्
चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया
चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा
परिधावन्नथ नल इतश्चेतश्च भारत
आससाद सभोद्देशे विकोशं खड्गमुत्तमम्
तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः
ततो निबद्धहृदयः पुनरागम्य तां सभाम्
दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्
सेयमद्य सभामध्ये शेते भूमावनाथवत्
इयं वस्त्रावकर्तेन संवीता चारुहासिनी
उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति
कथमेका सती भैमी मया विरहिता शुभा
चरिष्यति वने घोरे मृगव्यालनिषेविते
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः
आकृष्यमाणः कलिना सौहृदेनापकृष्यते
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा
दोलेव मुहुरायाति याति चैव सभां मुहुः
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः
जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः