Mahabharata

Vana Parva, Adhyaya 58

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 58, Verse 1

ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः

पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन

Mahabharata

Vana Parva, Adhyaya 58, Verse 2

हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्

द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव

Mahabharata

Vana Parva, Adhyaya 58, Verse 3

शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया

दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे

Mahabharata

Vana Parva, Adhyaya 58, Verse 4

पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना

व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्

Mahabharata

Vana Parva, Adhyaya 58, Verse 5

ततः पुष्करमालोक्य नलः परममन्युमान्

उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः

Mahabharata

Vana Parva, Adhyaya 58, Verse 6

एकवासा असंवीतः सुहृच्छोकविवर्धनः

निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम्

Mahabharata

Vana Parva, Adhyaya 58, Verse 7

दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात्

स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत्

Mahabharata

Vana Parva, Adhyaya 58, Verse 8

पुष्करस्तु महाराज घोषयामास वै पुरे

नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम

Mahabharata

Vana Parva, Adhyaya 58, Verse 9

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च

पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 58, Verse 10

स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः

त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन्

Mahabharata

Vana Parva, Adhyaya 58, Verse 11

क्षुधा संपीड्यमानस्तु नलो बहुतिथेऽहनि

अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्

Mahabharata

Vana Parva, Adhyaya 58, Verse 12

स चिन्तयामास तदा निषधाधिपतिर्बली

अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति

Mahabharata

Vana Parva, Adhyaya 58, Verse 13

ततस्तानन्तरीयेण वाससा समवास्तृणोत्

तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा

Mahabharata

Vana Parva, Adhyaya 58, Verse 14

उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम्

दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्

Mahabharata

Vana Parva, Adhyaya 58, Verse 15

वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः

आगता न हि नः प्रीतिः सवाससि गते त्वयि

Mahabharata

Vana Parva, Adhyaya 58, Verse 16

तान्समीक्ष्य गतानक्षानात्मानं च विवाससम्

पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 58, Verse 17

येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते

प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः

Mahabharata

Vana Parva, Adhyaya 58, Verse 18

येषां कृते न सत्कारमकुर्वन्मयि नैषधाः

त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे

Mahabharata

Vana Parva, Adhyaya 58, Verse 19

वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः

भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः

Mahabharata

Vana Parva, Adhyaya 58, Verse 20

एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्

अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्

Mahabharata

Vana Parva, Adhyaya 58, Verse 21

एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा

आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः

Mahabharata

Vana Parva, Adhyaya 58, Verse 22

एष पन्था विदर्भाणामयं गच्छति कोसलान्

अतः परं च देशोऽयं दक्षिणे दक्षिणापथः

Mahabharata

Vana Parva, Adhyaya 58, Verse 23

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता

उवाच दमयन्ती तं नैषधं करुणं वचः

Mahabharata

Vana Parva, Adhyaya 58, Verse 24

उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः

तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 58, Verse 25

हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम्

कथमुत्सृज्य गच्छेयमहं त्वां विजने वने

Mahabharata

Vana Parva, Adhyaya 58, Verse 26

श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्

वने घोरे महाराज नाशयिष्यामि ते क्लमम्

Mahabharata

Vana Parva, Adhyaya 58, Verse 27

न च भार्यासमं किंचिद्विद्यते भिषजां मतम्

औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते

Mahabharata

Vana Parva, Adhyaya 58, Verse 28

एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे

नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्

Mahabharata

Vana Parva, Adhyaya 58, Verse 29

न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे

त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते

Mahabharata

Vana Parva, Adhyaya 58, Verse 30

यदि मां त्वं महाराज न विहातुमिहेच्छसि

तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते