Mahabharata

Vana Parva, Adhyaya 56

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 56, Verse 1

एवं स समयं कृत्वा द्वापरेण कलिः सह

आजगाम ततस्तत्र यत्र राजा स नैषधः

Mahabharata

Vana Parva, Adhyaya 56, Verse 2

स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्

अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्

Mahabharata

Vana Parva, Adhyaya 56, Verse 3

कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः

अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्

Mahabharata

Vana Parva, Adhyaya 56, Verse 4

स समाविश्य तु नलं समीपं पुष्करस्य ह

गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै

Mahabharata

Vana Parva, Adhyaya 56, Verse 5

अक्षद्यूते नलं जेता भवान्हि सहितो मया

निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम्

Mahabharata

Vana Parva, Adhyaya 56, Verse 6

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्

कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात्

Mahabharata

Vana Parva, Adhyaya 56, Verse 7

आसाद्य तु नलं वीरं पुष्करः परवीरहा

दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः

Mahabharata

Vana Parva, Adhyaya 56, Verse 8

न चक्षमे ततो राजा समाह्वानं महामनाः

वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत

Mahabharata

Vana Parva, Adhyaya 56, Verse 9

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्

आविष्टः कलिना द्यूते जीयते स्म नलस्तदा

Mahabharata

Vana Parva, Adhyaya 56, Verse 10

तमक्षमदसंमत्तं सुहृदां न तु कश्चन

निवारणेऽभवच्छक्तो दीव्यमानमचेतसम्

Mahabharata

Vana Parva, Adhyaya 56, Verse 11

ततः पौरजनः सर्वो मन्त्रिभिः सह भारत

राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्

Mahabharata

Vana Parva, Adhyaya 56, Verse 12

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्

एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान्

Mahabharata

Vana Parva, Adhyaya 56, Verse 13

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः

अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः

Mahabharata

Vana Parva, Adhyaya 56, Verse 14

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता

उवाच नैषधं भैमी शोकोपहतचेतना

Mahabharata

Vana Parva, Adhyaya 56, Verse 15

राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः

मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः

तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत

Mahabharata

Vana Parva, Adhyaya 56, Verse 16

तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम्

आविष्टः कलिना राजा नाभ्यभाषत किंचन

Mahabharata

Vana Parva, Adhyaya 56, Verse 17

ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः

नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्

Mahabharata

Vana Parva, Adhyaya 56, Verse 18

तथा तदभवद्द्यूतं पुष्करस्य नलस्य च

युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत