Vana Parva, Adhyaya 55, Verse 1
वृते तु नैषधे भैम्या लोकपाला महौजसः
यान्तो ददृशुरायान्तं द्वापरं कलिना सह
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
वृते तु नैषधे भैम्या लोकपाला महौजसः
यान्तो ददृशुरायान्तं द्वापरं कलिना सह
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्
गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम्
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः
वृतस्तया नलो राजा पतिरस्मत्समीपतः
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा
देवानां मानुषं मध्ये यत्सा पतिमविन्दत
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः
अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः
कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम्
यो वेद धर्मानखिलान्यथावच्चरितव्रतः
यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे
आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना
एवंगुणं नलं यो वै कामयेच्छपितुं कले
कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते
त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि