Mahabharata

Vana Parva, Adhyaya 54

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 54, Verse 1

अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा

आजुहाव महीपालान्भीमो राजा स्वयंवरे

Mahabharata

Vana Parva, Adhyaya 54, Verse 2

तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः

त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः

Mahabharata

Vana Parva, Adhyaya 54, Verse 3

कनकस्तम्भरुचिरं तोरणेन विराजितम्

विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 4

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः

सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः

Mahabharata

Vana Parva, Adhyaya 54, Verse 5

तां राजसमितिं पूर्णां नागैर्भोगवतीमिव

संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव

Mahabharata

Vana Parva, Adhyaya 54, Verse 6

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः

आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः

Mahabharata

Vana Parva, Adhyaya 54, Verse 7

सुकेशान्तानि चारूणि सुनासानि शुभानि च

मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि

Mahabharata

Vana Parva, Adhyaya 54, Verse 8

दमयन्ती ततो रङ्गं प्रविवेश शुभानना

मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च

Mahabharata

Vana Parva, Adhyaya 54, Verse 9

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्

तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 10

ततः संकीर्त्यमानेषु राज्ञां नामसु भारत

ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव

Mahabharata

Vana Parva, Adhyaya 54, Verse 11

तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्

संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्

यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 12

सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी

कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 13

एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता

श्रुतानि देवलिङ्गानि चिन्तयामास भारत

Mahabharata

Vana Parva, Adhyaya 54, Verse 14

देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे

तानीह तिष्ठतां भूमावेकस्यापि न लक्षये

Mahabharata

Vana Parva, Adhyaya 54, Verse 15

सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः

शरणं प्रति देवानां प्राप्तकालममन्यत

Mahabharata

Vana Parva, Adhyaya 54, Verse 16

वाचा च मनसा चैव नमस्कारं प्रयुज्य सा

देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 54, Verse 17

हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः

पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे

Mahabharata

Vana Parva, Adhyaya 54, Verse 18

वाचा च मनसा चैव यथा नाभिचराम्यहम्

तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे

Mahabharata

Vana Parva, Adhyaya 54, Verse 19

यथा देवैः स मे भर्ता विहितो निषधाधिपः

तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे

Mahabharata

Vana Parva, Adhyaya 54, Verse 20

स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः

यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 21

निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्

निश्चयं परमं तथ्यमनुरागं च नैषधे

Mahabharata

Vana Parva, Adhyaya 54, Verse 22

मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत

यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे

Mahabharata

Vana Parva, Adhyaya 54, Verse 23

सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्

हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 24

छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः

भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः

Mahabharata

Vana Parva, Adhyaya 54, Verse 25

सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत

नैषधं वरयामास भैमी धर्मेण भारत

Mahabharata

Vana Parva, Adhyaya 54, Verse 26

विलज्जमाना वस्त्रान्ते जग्राहायतलोचना

स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम्

वरयामास चैवैनं पतित्वे वरवर्णिनी

Mahabharata

Vana Parva, Adhyaya 54, Verse 27

ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः

देवैर्महर्षिभिश्चैव साधु साध्विति भारत

विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्

Mahabharata

Vana Parva, Adhyaya 54, Verse 28

वृते तु नैषधे भैम्या लोकपाला महौजसः

प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः

Mahabharata

Vana Parva, Adhyaya 54, Verse 29

प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्

नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः

Mahabharata

Vana Parva, Adhyaya 54, Verse 30

अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः

लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः