Mahabharata

Vana Parva, Adhyaya 53

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 53, Verse 1

सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्

प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते

Mahabharata

Vana Parva, Adhyaya 53, Verse 2

अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन

सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर

Mahabharata

Vana Parva, Adhyaya 53, Verse 3

हंसानां वचनं यत्तत्तन्मां दहति पार्थिव

त्वत्कृते हि मया वीर राजानः संनिपातिताः

Mahabharata

Vana Parva, Adhyaya 53, Verse 4

यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद

विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्

Mahabharata

Vana Parva, Adhyaya 53, Verse 5

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह

तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि

Mahabharata

Vana Parva, Adhyaya 53, Verse 6

येषामहं लोककृतामीश्वराणां महात्मनाम्

न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्

Mahabharata

Vana Parva, Adhyaya 53, Verse 7

विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति

त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्

Mahabharata

Vana Parva, Adhyaya 53, Verse 8

ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता

प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 53, Verse 9

अस्त्युपायो मया दृष्टो निरपायो नरेश्वर

येन दोषो न भविता तव राजन्कथंचन

Mahabharata

Vana Parva, Adhyaya 53, Verse 10

त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः

आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः

Mahabharata

Vana Parva, Adhyaya 53, Verse 11

ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर

वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति

Mahabharata

Vana Parva, Adhyaya 53, Verse 12

एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते

आजगाम पुनस्तत्र यत्र देवाः समागताः

Mahabharata

Vana Parva, Adhyaya 53, Verse 13

तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः

दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत्

Mahabharata

Vana Parva, Adhyaya 53, Verse 14

कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता

किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ

Mahabharata

Vana Parva, Adhyaya 53, Verse 15

भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्

प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्

Mahabharata

Vana Parva, Adhyaya 53, Verse 16

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः

ऋते तां पार्थिवसुतां भवतामेव तेजसा

Mahabharata

Vana Parva, Adhyaya 53, Verse 17

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः

विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः

Mahabharata

Vana Parva, Adhyaya 53, Verse 18

वर्ण्यमानेषु च मया भवत्सु रुचिरानना

मामेव गतसंकल्पा वृणीते सुरसत्तमाः

Mahabharata

Vana Parva, Adhyaya 53, Verse 19

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः

त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः

Mahabharata

Vana Parva, Adhyaya 53, Verse 20

तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम

एवं तव महाबाहो दोषो न भवितेति ह

Mahabharata

Vana Parva, Adhyaya 53, Verse 21

एतावदेव विबुधा यथावृत्तमुदाहृतम्

मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः