Mahabharata

Vana Parva, Adhyaya 52

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 52, Verse 1

तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत

अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः

Mahabharata

Vana Parva, Adhyaya 52, Verse 2

के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः

किं च तत्र मया कार्यं कथयध्वं यथातथम्

Mahabharata

Vana Parva, Adhyaya 52, Verse 3

एवमुक्ते नैषधेन मघवान्प्रत्यभाषत

अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्

Mahabharata

Vana Parva, Adhyaya 52, Verse 4

अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः

शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव

Mahabharata

Vana Parva, Adhyaya 52, Verse 5

स वै त्वमागतानस्मान्दमयन्त्यै निवेदय

लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः

Mahabharata

Vana Parva, Adhyaya 52, Verse 6

प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः

तेषामन्यतमं देवं पतित्वे वरयस्व ह

Mahabharata

Vana Parva, Adhyaya 52, Verse 7

एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्

एकार्थसमवेतं मां न प्रेषयितुमर्हथ

Mahabharata

Vana Parva, Adhyaya 52, Verse 8

करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध

न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम्

Mahabharata

Vana Parva, Adhyaya 52, Verse 9

एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्

सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे

Mahabharata

Vana Parva, Adhyaya 52, Verse 10

प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत

जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्

Mahabharata

Vana Parva, Adhyaya 52, Verse 11

ददर्श तत्र वैदर्भीं सखीगणसमावृताम्

देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्

Mahabharata

Vana Parva, Adhyaya 52, Verse 12

अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्

आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा

Mahabharata

Vana Parva, Adhyaya 52, Verse 13

तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्

सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम्

Mahabharata

Vana Parva, Adhyaya 52, Verse 14

ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः

आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः

Mahabharata

Vana Parva, Adhyaya 52, Verse 15

प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः

न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन्

Mahabharata

Vana Parva, Adhyaya 52, Verse 16

अहो रूपमहो कान्तिरहो धैर्यं महात्मनः

कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति

Mahabharata

Vana Parva, Adhyaya 52, Verse 17

न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन

तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः

Mahabharata

Vana Parva, Adhyaya 52, Verse 18

अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी

दमयन्ती नलं वीरमभ्यभाषत विस्मिता

Mahabharata

Vana Parva, Adhyaya 52, Verse 19

कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन

प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ

Mahabharata

Vana Parva, Adhyaya 52, Verse 20

कथमागमनं चेह कथं चासि न लक्षितः

सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः

Mahabharata

Vana Parva, Adhyaya 52, Verse 21

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह

नलं मां विद्धि कल्याणि देवदूतमिहागतम्

Mahabharata

Vana Parva, Adhyaya 52, Verse 22

देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः

तेषामन्यतमं देवं पतिं वरय शोभने

Mahabharata

Vana Parva, Adhyaya 52, Verse 23

तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः

प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत्

Mahabharata

Vana Parva, Adhyaya 52, Verse 24

एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः

एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि