Vana Parva, Adhyaya 51, Verse 1
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत
तदा प्रभृति नस्वस्था नलं प्रति बभूव सा
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत
तदा प्रभृति नस्वस्था नलं प्रति बभूव सा
ततश्चिन्तापरा दीना विवर्णवदना कृशा
बभूव दमयन्ती तु निःश्वासपरमा तदा
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
न नक्तं न दिवा शेते हा हेति वदती मुहुः
तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः
ततो विदर्भपतये दमयन्त्याः सखीगणः
न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्
चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्
अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम्
स संनिपातयामास महीपालान्विशां पते
अनुभूयतामयं वीराः स्वयंवर इति प्रभो
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्
अभिजग्मुस्तदा भीमं राजानो भीमशासनात्
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम्
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ
अटमानौ महात्मानाविन्द्रलोकमितो गतौ
नारदः पर्वतश्चैव महात्मानौ महाव्रतौ
देवराजस्य भवनं विविशाते सुपूजितौ
तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम्
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः
आवयोः कुशलं देव सर्वत्रगतमीश्वर
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्
आगच्छतो महीपालानतिथीन्दयितान्मम
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत
शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः
विदर्भराजदुहिता दमयन्तीति विश्रुता
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः
तस्याः स्वयंवरः शक्र भविता नचिरादिव
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः
आजग्मुर्देवराजस्य समीपममरोत्तमाः
ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत्
श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत
ततः सर्वे महाराज सगणाः सहवाहनाः
विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात्
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान्
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम