Mahabharata

Vana Parva, Adhyaya 50

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 50, Verse 1

आसीद्राजा नलो नाम वीरसेनसुतो बली

उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः

Mahabharata

Vana Parva, Adhyaya 50, Verse 2

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा

उपर्युपरि सर्वेषामादित्य इव तेजसा

Mahabharata

Vana Parva, Adhyaya 50, Verse 3

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः

अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः

Mahabharata

Vana Parva, Adhyaya 50, Verse 4

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः

रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्

Mahabharata

Vana Parva, Adhyaya 50, Verse 5

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः

शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः

Mahabharata

Vana Parva, Adhyaya 50, Verse 6

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः

तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत

Mahabharata

Vana Parva, Adhyaya 50, Verse 7

तं स भीमः प्रजाकामस्तोषयामास धर्मवित्

महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्

Mahabharata

Vana Parva, Adhyaya 50, Verse 8

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ

कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः

Mahabharata

Vana Parva, Adhyaya 50, Verse 9

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्

उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्

Mahabharata

Vana Parva, Adhyaya 50, Verse 10

दमयन्ती तु रूपेण तेजसा यशसा श्रिया

सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा

Mahabharata

Vana Parva, Adhyaya 50, Verse 11

अथ तां वयसि प्राप्ते दासीनां समलंकृतम्

शतं सखीनां च तथा पर्युपास्ते शचीमिव

Mahabharata

Vana Parva, Adhyaya 50, Verse 12

तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता

सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा

अतीव रूपसंपन्ना श्रीरिवायतलोचना

Mahabharata

Vana Parva, Adhyaya 50, Verse 13

न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्

मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता

चित्तप्रमाथिनी बाला देवानामपि सुन्दरी

Mahabharata

Vana Parva, Adhyaya 50, Verse 14

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि

कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्

Mahabharata

Vana Parva, Adhyaya 50, Verse 15

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्

नैषधस्य समीपे तु दमयन्तीं पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 50, Verse 16

तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान्

अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः

Mahabharata

Vana Parva, Adhyaya 50, Verse 17

अशक्नुवन्नलः कामं तदा धारयितुं हृदा

अन्तःपुरसमीपस्थे वन आस्ते रहोगतः

Mahabharata

Vana Parva, Adhyaya 50, Verse 18

स ददर्श तदा हंसाञ्जातरूपपरिच्छदान्

वने विचरतां तेषामेकं जग्राह पक्षिणम्

Mahabharata

Vana Parva, Adhyaya 50, Verse 19

ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम्

न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम्

Mahabharata

Vana Parva, Adhyaya 50, Verse 20

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध

यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्

Mahabharata

Vana Parva, Adhyaya 50, Verse 21

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः

ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः

Mahabharata

Vana Parva, Adhyaya 50, Verse 22

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके

निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्

Mahabharata

Vana Parva, Adhyaya 50, Verse 23

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता

हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे

Mahabharata

Vana Parva, Adhyaya 50, Verse 24

अथ हंसा विससृपुः सर्वतः प्रमदावने

एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन्

Mahabharata

Vana Parva, Adhyaya 50, Verse 25

दमयन्ती तु यं हंसं समुपाधावदन्तिके

स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 50, Verse 26

दमयन्ति नलो नाम निषधेषु महीपतिः

अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः

Mahabharata

Vana Parva, Adhyaya 50, Verse 27

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि

सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे

Mahabharata

Vana Parva, Adhyaya 50, Verse 28

वयं हि देवगन्धर्वमनुष्योरगराक्षसान्

दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः

Mahabharata

Vana Parva, Adhyaya 50, Verse 29

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः

विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्

Mahabharata

Vana Parva, Adhyaya 50, Verse 30

एवमुक्ता तु हंसेन दमयन्ती विशां पते

अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद