Vana Parva, Adhyaya 49, Verse 1
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि
न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः
ततः कदाचिदेकान्ते विविक्त इव शाद्वले
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया
धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे
धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत
निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्
सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम्
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन्
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम्
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम्
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः
सहामहे भवन्मूलं वासुदेवेन पालिताः
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान्
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम्
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः
अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम्
व्यूढानीकान्महाराज जवेनैव महाहवे
धार्तराष्ट्रानमुं लोकं गमयामि विशां पते
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान्
दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः
एवं कृते न ते दोषो भविष्यति विशां पते
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम
अवधूय महाराज गच्छेम स्वर्गमुत्तमम्
एवमेतद्भवेद्राजन्यदि राजा न बालिशः
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते
अहोरात्रं महाराज तुल्यं संवत्सरेण हि
तथैव वेदवचनं श्रूयते नित्यदा विभो
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत
त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः
उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम्
असंशयं महाबाहो हनिष्यसि सुयोधनम्
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो
अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम्
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम्
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे
आजगाम महाभागो बृहदश्वो महानृषिः
तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम्
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट्