Mahabharata

Vana Parva, Adhyaya 48

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 48, Verse 1

सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः

अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 48, Verse 2

देवपुत्रौ महाभागौ देवराजसमद्युती

नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ

Mahabharata

Vana Parva, Adhyaya 48, Verse 3

दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ

शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ

Mahabharata

Vana Parva, Adhyaya 48, Verse 4

भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि

स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ

न शेषमिह पश्यामि तदा सैन्यस्य संजय

Mahabharata

Vana Parva, Adhyaya 48, Verse 5

तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ

द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ

Mahabharata

Vana Parva, Adhyaya 48, Verse 6

वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः

युधि सत्याभिसंधेन वासुदेवेन रक्षिताः

प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्

Mahabharata

Vana Parva, Adhyaya 48, Verse 7

रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन

न शक्यः सहितुं वेगः पर्वतैरपि संयुगे

Mahabharata

Vana Parva, Adhyaya 48, Verse 8

तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः

शैक्यया वीरघातिन्या गदया विचरिष्यति

Mahabharata

Vana Parva, Adhyaya 48, Verse 9

तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः

गदावेगं च भीमस्य नालं सोढुं नराधिपाः

Mahabharata

Vana Parva, Adhyaya 48, Verse 10

ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः

स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा

Mahabharata

Vana Parva, Adhyaya 48, Verse 11

व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः

समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः

Mahabharata

Vana Parva, Adhyaya 48, Verse 12

श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः

त्वरितः काम्यके पार्थान्समभावयदच्युतः

Mahabharata

Vana Parva, Adhyaya 48, Verse 13

द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः

विराटो धृष्टकेतुश्च केकयाश्च महारथाः

Mahabharata

Vana Parva, Adhyaya 48, Verse 14

तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान्

चारेण विदितं सर्वं तन्मया वेदितं च ते

Mahabharata

Vana Parva, Adhyaya 48, Verse 15

समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः

सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः

Mahabharata

Vana Parva, Adhyaya 48, Verse 16

अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान्

कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 48, Verse 17

या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह

राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा

Mahabharata

Vana Parva, Adhyaya 48, Verse 18

यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्

सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान्

Mahabharata

Vana Parva, Adhyaya 48, Verse 19

सागरानूपगांश्चैव ये च पत्तनवासिनः

सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः

Mahabharata

Vana Parva, Adhyaya 48, Verse 20

पश्चिमानि च राज्यानि शतशः सागरान्तिकान्

पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान्

Mahabharata

Vana Parva, Adhyaya 48, Verse 21

हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा

जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान्

Mahabharata

Vana Parva, Adhyaya 48, Verse 22

एते चान्ये च बहवो ये च ते भरतर्षभ

आगतानहमद्राक्षं यज्ञे ते परिवेषकान्

Mahabharata

Vana Parva, Adhyaya 48, Verse 23

सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी

आदाय जीवितं तेषामाहरिष्यामि तामहम्

Mahabharata

Vana Parva, Adhyaya 48, Verse 24

रामेण सह कौरव्य भीमार्जुनयमैस्तथा

अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च

धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च

Mahabharata

Vana Parva, Adhyaya 48, Verse 25

दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत

दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते

Mahabharata

Vana Parva, Adhyaya 48, Verse 26

ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्

धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्

Mahabharata

Vana Parva, Adhyaya 48, Verse 27

अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे

शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च

Mahabharata

Vana Parva, Adhyaya 48, Verse 28

प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन

अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि

Mahabharata

Vana Parva, Adhyaya 48, Verse 29

वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव

प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम्

Mahabharata

Vana Parva, Adhyaya 48, Verse 30

तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः

धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा

केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्