Vana Parva, Adhyaya 47, Verse 1
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम्
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्
वानेयमथ वा कृष्टमेतदाख्यातु मे भवान्
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान्
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत्
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः
पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान्
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी
मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा
प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम्
धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य
तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम्
पञ्चैव वर्षाणि तदा व्यतीयु;रधीयतां जपतां जुह्वतां च