Mahabharata

Vana Parva, Adhyaya 45

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 45, Verse 1

ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्

शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा

Mahabharata

Vana Parva, Adhyaya 45, Verse 2

पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्

प्रवेशयामासुरथो पुरंदरनिवेशनम्

Mahabharata

Vana Parva, Adhyaya 45, Verse 3

एवं संपूजितो जिष्णुरुवास भवने पितुः

उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः

Mahabharata

Vana Parva, Adhyaya 45, Verse 4

शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम्

अशनीश्च महानादा मेघबर्हिणलक्षणाः

Mahabharata

Vana Parva, Adhyaya 45, Verse 5

गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः

पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी

Mahabharata

Vana Parva, Adhyaya 45, Verse 6

ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते

नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि

Mahabharata

Vana Parva, Adhyaya 45, Verse 7

वादित्रं देवविहितं नृलोके यन्न विद्यते

तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति

Mahabharata

Vana Parva, Adhyaya 45, Verse 8

सखायं प्रददौ चास्य चित्रसेनं पुरंदरः

स तेन सह संगम्य रेमे पार्थो निरामयः

Mahabharata

Vana Parva, Adhyaya 45, Verse 9

कदाचिदटमानस्तु महर्षिरुत लोमशः

जगाम शक्रभवनं पुरंदरदिदृक्षया

Mahabharata

Vana Parva, Adhyaya 45, Verse 10

स समेत्य नमस्कृत्य देवराजं महामुनिः

ददर्शार्धासनगतं पाण्डवं वासवस्य ह

Mahabharata

Vana Parva, Adhyaya 45, Verse 11

ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे

निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः

Mahabharata

Vana Parva, Adhyaya 45, Verse 12

तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्

कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान्

Mahabharata

Vana Parva, Adhyaya 45, Verse 13

किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः

य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम्

Mahabharata

Vana Parva, Adhyaya 45, Verse 14

तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः

लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः

Mahabharata

Vana Parva, Adhyaya 45, Verse 15

ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्

नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः

Mahabharata

Vana Parva, Adhyaya 45, Verse 16

महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः

अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात्

Mahabharata

Vana Parva, Adhyaya 45, Verse 17

अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्

शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम्

Mahabharata

Vana Parva, Adhyaya 45, Verse 18

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ

ताविमावभिजानीहि हृषीकेशधनंजयौ

Mahabharata

Vana Parva, Adhyaya 45, Verse 19

यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः

तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम्

Mahabharata

Vana Parva, Adhyaya 45, Verse 20

स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च

यतः प्रववृते गङ्गा सिद्धचारणसेविता

Mahabharata

Vana Parva, Adhyaya 45, Verse 21

तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती

भूमेर्भारावतरणं महावीर्यौ करिष्यतः

Mahabharata

Vana Parva, Adhyaya 45, Verse 22

उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति

विप्रियेषु स्थितास्माकं वरदानेन मोहिताः

Mahabharata

Vana Parva, Adhyaya 45, Verse 23

तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः

देवान्न गणयन्ते च तथा दत्तवरा हि ते

Mahabharata

Vana Parva, Adhyaya 45, Verse 24

पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः

सर्वे देवनिकाया हि नालं योधयितुं स्म तान्

Mahabharata

Vana Parva, Adhyaya 45, Verse 25

योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः

कपिलो नाम देवोऽसौ भगवानजितो हरिः

Mahabharata

Vana Parva, Adhyaya 45, Verse 26

येन पूर्वं महात्मानः खनमाना रसातलम्

दर्शनादेव निहताः सगरस्यात्मजा विभो

Mahabharata

Vana Parva, Adhyaya 45, Verse 27

तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम

पार्थेन च महायुद्धे समेताभ्यामसंशयम्

Mahabharata

Vana Parva, Adhyaya 45, Verse 28

अयं तेषां समस्तानां शक्तः प्रतिसमासने

तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान्

Mahabharata

Vana Parva, Adhyaya 45, Verse 29

भवांश्चास्मन्नियोगेन यातु तावन्महीतलम्

काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 45, Verse 30

स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः

नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति