Mahabharata

Vana Parva, Adhyaya 44

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 44, Verse 1

स ददर्श पुरीं रम्यां सिद्धचारणसेविताम्

सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्

Mahabharata

Vana Parva, Adhyaya 44, Verse 2

तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम्

उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना

Mahabharata

Vana Parva, Adhyaya 44, Verse 3

नन्दनं च वनं दिव्यमप्सरोगणसेवितम्

ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः

Mahabharata

Vana Parva, Adhyaya 44, Verse 4

नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना

स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः

Mahabharata

Vana Parva, Adhyaya 44, Verse 5

नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः

नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः

Mahabharata

Vana Parva, Adhyaya 44, Verse 6

नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन

पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः

Mahabharata

Vana Parva, Adhyaya 44, Verse 7

स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्

प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम्

Mahabharata

Vana Parva, Adhyaya 44, Verse 8

तत्र देवविमानानि कामगानि सहस्रशः

संस्थितान्यभियातानि ददर्शायुतशस्तदा

Mahabharata

Vana Parva, Adhyaya 44, Verse 9

संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः

पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः

Mahabharata

Vana Parva, Adhyaya 44, Verse 10

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम्

Mahabharata

Vana Parva, Adhyaya 44, Verse 11

आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः

प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्

Mahabharata

Vana Parva, Adhyaya 44, Verse 12

नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्

इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः

Mahabharata

Vana Parva, Adhyaya 44, Verse 13

तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि

आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः

Mahabharata

Vana Parva, Adhyaya 44, Verse 14

राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः

तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू

Mahabharata

Vana Parva, Adhyaya 44, Verse 15

तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः

ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम्

Mahabharata

Vana Parva, Adhyaya 44, Verse 16

ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्

ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम्

Mahabharata

Vana Parva, Adhyaya 44, Verse 17

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा

दिव्यगन्धाधिवासेन व्यजनेन विधूयता

Mahabharata

Vana Parva, Adhyaya 44, Verse 18

विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः

स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः

Mahabharata

Vana Parva, Adhyaya 44, Verse 19

ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली

स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत

Mahabharata

Vana Parva, Adhyaya 44, Verse 20

ततः शक्रासने पुण्ये देवराजर्षिपूजिते

शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके

Mahabharata

Vana Parva, Adhyaya 44, Verse 21

मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा

अङ्कमारोपयामास प्रश्रयावनतं तदा

Mahabharata

Vana Parva, Adhyaya 44, Verse 22

सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा

अध्यक्रामदमेयात्मा द्वितीय इव वासवः

Mahabharata

Vana Parva, Adhyaya 44, Verse 23

ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्

पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्

Mahabharata

Vana Parva, Adhyaya 44, Verse 24

परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ

ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ

Mahabharata

Vana Parva, Adhyaya 44, Verse 25

वज्रग्रहणचिह्नेन करेण बलसूदनः

मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः

Mahabharata

Vana Parva, Adhyaya 44, Verse 26

स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्

हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा

Mahabharata

Vana Parva, Adhyaya 44, Verse 27

एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम्

सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ

Mahabharata

Vana Parva, Adhyaya 44, Verse 28

तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना

गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु

Mahabharata

Vana Parva, Adhyaya 44, Verse 29

घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा

उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी

Mahabharata

Vana Parva, Adhyaya 44, Verse 30

गोपाली सहजन्या च कुम्भयोनिः प्रजागरा

चित्रसेना चित्रलेखा सहा च मधुरस्वरा