Vana Parva, Adhyaya 43, Verse 1
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः
चिन्तयामास राजेन्द्र देवराजरथागमम्
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः
चिन्तयामास राजेन्द्र देवराजरथागमम्
ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः
रथो मातलिसंयुक्त आजगाम महाप्रभः
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव
दिशः संपूरयन्नादैर्महामेघरवोपमैः
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः
तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः
वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः
तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः
दश वाजिसहस्राणि हरीणां वातरंहसाम्
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम्
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम्
दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत्
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः
संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत्
भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम्
आह माममरश्रेष्ठः पिता तव शतक्रतुः
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः
एष शक्रः परिवृतो देवैरृषिगणैस्तथा
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते
अस्माल्लोकाद्देवलोकं पाकशासनशासनात्
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम्
नातप्ततपसा शक्य एष दिव्यो महारथः
द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु
त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा
तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः
आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे
साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम्
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम्
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्
गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः
सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम्
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः
न तत्र सूर्यः सोमो वा द्योतते न च पावकः
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै
दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि