Vana Parva, Adhyaya 42, Verse 1
तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः
जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान्
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः
जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान्
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा
मया साक्षान्महादेवो दृष्ट इत्येव भारत
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना
कृतार्थं चावगच्छामि परमात्मानमात्मना
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम्
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः
यादोगणवृतः श्रीमानाजगाम जलेश्वरः
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः
वरुणो यादसां भर्ता वशी तं देशमागमत्
अथ जाम्बूनदवपुर्विमानेन महार्चिषा
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान्
मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्
वैवस्वतो धर्मराजो विमानेनावभासयन्
त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते
भानुमन्ति विचित्राणि शिखराणि महागिरेः
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम्
ततो मुहूर्ताद्भगवानैरावतशिरोगतः
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे तारकाराजः सितमभ्रमिवास्थितः
संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान्
दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम्
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः
त्वं वासवसमुद्भूतो महावीर्यपराक्रमः
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्
दानवाश्च महावीर्या ये मनुष्यत्वमागताः
निवातकवचाश्चैव संसाध्याः कुरुनन्दन
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः
कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम्
तया निपातिता युद्धे स्वकर्मफलनिर्जिताम्
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन
त्वया साक्षान्महादेवस्तोषितो हि महामृधे
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः
समन्त्रं सोपचारं च समोक्षं सनिवर्तनम्
ततो जलधरश्यामो वरुणो यादसां पतिः
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः
मया समुद्यतान्पाशान्वारुणाननिवारणान्
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान्
एभिस्तदा मया वीर संग्रामे तारकामये
दैतेयानां सहस्राणि संयतानि महात्मनाम्
तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान्
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः
अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः