Mahabharata

Vana Parva, Adhyaya 41

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 41, Verse 1

नरस्त्वं पूर्वदेहे वै नारायणसहायवान्

बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून्

Mahabharata

Vana Parva, Adhyaya 41, Verse 2

त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे

युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत्

Mahabharata

Vana Parva, Adhyaya 41, Verse 3

शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम्

प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो

Mahabharata

Vana Parva, Adhyaya 41, Verse 4

एतत्तदेव गाण्डीवं तव पार्थ करोचितम्

मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम

तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ

Mahabharata

Vana Parva, Adhyaya 41, Verse 5

प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम

गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ

Mahabharata

Vana Parva, Adhyaya 41, Verse 6

न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद

दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम

Mahabharata

Vana Parva, Adhyaya 41, Verse 7

भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज

कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो

Mahabharata

Vana Parva, Adhyaya 41, Verse 8

यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्

युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत्

Mahabharata

Vana Parva, Adhyaya 41, Verse 9

दहेयं येन संग्रामे दानवान्राक्षसांस्तथा

भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान्

Mahabharata

Vana Parva, Adhyaya 41, Verse 10

यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः

शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः

Mahabharata

Vana Parva, Adhyaya 41, Verse 11

युध्येयं येन भीष्मेण द्रोणेन च कृपेण च

सूतपुत्रेण च रणे नित्यं कटुकभाषिणा

Mahabharata

Vana Parva, Adhyaya 41, Verse 12

एष मे प्रथमः कामो भगवन्भगनेत्रहन्

त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा

Mahabharata

Vana Parva, Adhyaya 41, Verse 13

ददानि तेऽस्त्रं दयितमहं पाशुपतं महत्

समर्थो धारणे मोक्षे संहारे चापि पाण्डव

Mahabharata

Vana Parva, Adhyaya 41, Verse 14

नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट्

वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः

Mahabharata

Vana Parva, Adhyaya 41, Verse 15

न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्

जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम्

Mahabharata

Vana Parva, Adhyaya 41, Verse 16

अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे

मनसा चक्षुषा वाचा धनुषा च निपात्यते

Mahabharata

Vana Parva, Adhyaya 41, Verse 17

तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः

उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत्

Mahabharata

Vana Parva, Adhyaya 41, Verse 18

ततस्त्वध्यापयामास सरहस्य निवर्तनम्

तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम्

Mahabharata

Vana Parva, Adhyaya 41, Verse 19

उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्

प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा

Mahabharata

Vana Parva, Adhyaya 41, Verse 20

ततश्चचाल पृथिवी सपर्वतवनद्रुमा

ससागरवनोद्देशा सग्रामनगराकरा

Mahabharata

Vana Parva, Adhyaya 41, Verse 21

शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः

तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत्

Mahabharata

Vana Parva, Adhyaya 41, Verse 22

अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः

मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः

Mahabharata

Vana Parva, Adhyaya 41, Verse 23

स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः

यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत्

Mahabharata

Vana Parva, Adhyaya 41, Verse 24

स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः

प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत

Mahabharata

Vana Parva, Adhyaya 41, Verse 25

ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः

धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम्

Mahabharata

Vana Parva, Adhyaya 41, Verse 26

ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम्

विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः