Mahabharata

Vana Parva, Adhyaya 40

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 40, Verse 1

गतेषु तेषु सर्वेषु तपस्विषु महात्मसु

पिनाकपाणिर्भगवान्सर्वपापहरो हरः

Mahabharata

Vana Parva, Adhyaya 40, Verse 2

कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम्

विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः

Mahabharata

Vana Parva, Adhyaya 40, Verse 3

श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान्

निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः

Mahabharata

Vana Parva, Adhyaya 40, Verse 4

देव्या सहोमया श्रीमान्समानव्रतवेषया

नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा

Mahabharata

Vana Parva, Adhyaya 40, Verse 5

किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः

अशोभत तदा राजन्स देवोऽतीव भारत

Mahabharata

Vana Parva, Adhyaya 40, Verse 6

क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा

नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत्

Mahabharata

Vana Parva, Adhyaya 40, Verse 7

स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः

मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम्

Mahabharata

Vana Parva, Adhyaya 40, Verse 8

वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम्

हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः

Mahabharata

Vana Parva, Adhyaya 40, Verse 9

गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्

सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्

Mahabharata

Vana Parva, Adhyaya 40, Verse 10

यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्

तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम्

Mahabharata

Vana Parva, Adhyaya 40, Verse 11

तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्

किरातरूपी सहसा वारयामास शंकरः

Mahabharata

Vana Parva, Adhyaya 40, Verse 12

मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः

अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः

Mahabharata

Vana Parva, Adhyaya 40, Verse 13

किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः

प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्

Mahabharata

Vana Parva, Adhyaya 40, Verse 14

तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः

मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा

Mahabharata

Vana Parva, Adhyaya 40, Verse 15

यथाशनिविनिष्पेषो वज्रस्येव च पर्वते

तथा तयोः संनिपातः शरयोरभवत्तदा

Mahabharata

Vana Parva, Adhyaya 40, Verse 16

स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव

ममार राक्षसं रूपं भूयः कृत्वा विभीषणम्

Mahabharata

Vana Parva, Adhyaya 40, Verse 17

ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम्

किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा

तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव

Mahabharata

Vana Parva, Adhyaya 40, Verse 18

को भवानटते शून्ये वने स्त्रीगणसंवृतः

न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ

Mahabharata

Vana Parva, Adhyaya 40, Verse 19

किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः

मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः

Mahabharata

Vana Parva, Adhyaya 40, Verse 20

कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे

न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि

तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय

Mahabharata

Vana Parva, Adhyaya 40, Verse 21

इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव

उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्

Mahabharata

Vana Parva, Adhyaya 40, Verse 22

ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः

ममैव च प्रहारेण जीविताद्व्यवरोपितः

Mahabharata

Vana Parva, Adhyaya 40, Verse 23

दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः

अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे

Mahabharata

Vana Parva, Adhyaya 40, Verse 24

स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव

घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्

Mahabharata

Vana Parva, Adhyaya 40, Verse 25

ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः

शरैराशीविषाकारैस्ततक्षाते परस्परम्

Mahabharata

Vana Parva, Adhyaya 40, Verse 26

ततोऽर्जुनः शरवर्षं किराते समवासृजत्

तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः

Mahabharata

Vana Parva, Adhyaya 40, Verse 27

मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक्

अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः

Mahabharata

Vana Parva, Adhyaya 40, Verse 28

स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः

परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 40, Verse 29

अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः

गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः

Mahabharata

Vana Parva, Adhyaya 40, Verse 30

कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः

विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः