Vana Parva, Adhyaya 39, Verse 1
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः
भवेन सह संग्रामं चकाराप्रतिमं किल
पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्
शूराणामपि पार्थानां हृदयानि चकम्पिरे
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय
कथयिष्यामि ते तात कथामेतां महात्मनः
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम्
गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ
पार्थस्य देवदेवेन शृणु सम्यक्समागमम्
युधिष्ठिरनियोगात्स जगामामितविक्रमः
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम्
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः
महाबलो महाबाहुरर्जुनः कार्यसिद्धये
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः
त्वरया परया युक्तस्तपसे धृतनिश्चयः
वनं कण्टकितं घोरमेक एवान्वपद्यत
नानापुष्पफलोपेतं नानापक्षिनिषेवितम्
नानामृगगणाकीर्णं सिद्धचारणसेवितम्
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम्
शङ्खानां पटहानां च शब्दः समभवद्दिवि
पुष्पवर्षं च सुमहन्निपपात महीतले
मेघजालं च विततं छादयामास सर्वतः
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान्
नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत्
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा
तपस्युग्रे वर्तमान उग्रतेजा महामनाः
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः
द्विगुणेनैव कालेन द्वितीयं मासमत्यगात्
तृतीयमपि मासं स पक्षेणाहारमाचरन्
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान्
चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम्
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्
संतापयति नः सर्वानसौ साधु निवार्यताम्
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः
अहमस्य विजानामि संकल्पं मनसि स्थितम्
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान्