Mahabharata

Vana Parva, Adhyaya 38

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 38, Verse 1

कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः

संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 38, Verse 2

विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम्

सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन्

Mahabharata

Vana Parva, Adhyaya 38, Verse 3

स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः

धनंजयं धर्मराजो रहसीदमुवाच ह

Mahabharata

Vana Parva, Adhyaya 38, Verse 4

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत

धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः

Mahabharata

Vana Parva, Adhyaya 38, Verse 5

ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम्

सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः

Mahabharata

Vana Parva, Adhyaya 38, Verse 6

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः

संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते

Mahabharata

Vana Parva, Adhyaya 38, Verse 7

सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा

शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः

Mahabharata

Vana Parva, Adhyaya 38, Verse 8

अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा

त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः

तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम

Mahabharata

Vana Parva, Adhyaya 38, Verse 9

कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया

तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते

तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः

Mahabharata

Vana Parva, Adhyaya 38, Verse 10

देवतानां यथाकालं प्रसादं प्रतिपालय

तपसा योजयात्मानमुग्रेण भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 38, Verse 11

धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः

न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम्

इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय

Mahabharata

Vana Parva, Adhyaya 38, Verse 12

वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम्

तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे

Mahabharata

Vana Parva, Adhyaya 38, Verse 13

शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति

दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम्

Mahabharata

Vana Parva, Adhyaya 38, Verse 14

एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः

दीक्षितं विधिना तेन यतवाक्कायमानसम्

अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः

Mahabharata

Vana Parva, Adhyaya 38, Verse 15

निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम्

धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी

Mahabharata

Vana Parva, Adhyaya 38, Verse 16

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्

हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः

Mahabharata

Vana Parva, Adhyaya 38, Verse 17

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः

वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च

Mahabharata

Vana Parva, Adhyaya 38, Verse 18

तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्

अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च

क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि

Mahabharata

Vana Parva, Adhyaya 38, Verse 19

तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम्

मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 38, Verse 20

यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय

तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि

Mahabharata

Vana Parva, Adhyaya 38, Verse 21

मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात्

ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका

Mahabharata

Vana Parva, Adhyaya 38, Verse 22

नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे

रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 38, Verse 23

नैव नः पार्थ भोगेषु न धने नोत जीविते

तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि

Mahabharata

Vana Parva, Adhyaya 38, Verse 24

त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते

जीवितं मरणं चैव राज्यमैश्वर्यमेव च

आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव

Mahabharata

Vana Parva, Adhyaya 38, Verse 25

नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत

दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः

Mahabharata

Vana Parva, Adhyaya 38, Verse 26

ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः

प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः

Mahabharata

Vana Parva, Adhyaya 38, Verse 27

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः

युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः

Mahabharata

Vana Parva, Adhyaya 38, Verse 28

सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः

मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः

Mahabharata

Vana Parva, Adhyaya 38, Verse 29

हिमवन्तमतिक्रम्य गन्धमादनमेव च

अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः

Mahabharata

Vana Parva, Adhyaya 38, Verse 30

इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः

अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा