Mahabharata

Vana Parva, Adhyaya 36

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 36, Verse 1

संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा

अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा

Mahabharata

Vana Parva, Adhyaya 36, Verse 2

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः

फेनधर्मा महाराज फलधर्मा तथैव च

Mahabharata

Vana Parva, Adhyaya 36, Verse 3

निमेषादपि कौन्तेय यस्यायुरपचीयते

सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्

Mahabharata

Vana Parva, Adhyaya 36, Verse 4

यो नूनममितायुः स्यादथ वापि प्रमाणवित्

स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्

Mahabharata

Vana Parva, Adhyaya 36, Verse 5

प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश

आयुषोऽपचयं कृत्वा मरणायोपनेष्यति

Mahabharata

Vana Parva, Adhyaya 36, Verse 6

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्

प्रागेव मरणात्तस्माद्राज्यायैव घटामहे

Mahabharata

Vana Parva, Adhyaya 36, Verse 7

यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः

अयातयित्वा वैराणि सोऽवसीदति गौरिव

Mahabharata

Vana Parva, Adhyaya 36, Verse 8

यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्

अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः

Mahabharata

Vana Parva, Adhyaya 36, Verse 9

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव

हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु

Mahabharata

Vana Parva, Adhyaya 36, Verse 10

हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम

अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः

Mahabharata

Vana Parva, Adhyaya 36, Verse 11

अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः

येनाहमभिसंतप्तो न नक्तं न दिवा शये

Mahabharata

Vana Parva, Adhyaya 36, Verse 12

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे

आस्ते परमसंतप्तो नूनं सिंह इवाशये

Mahabharata

Vana Parva, Adhyaya 36, Verse 13

योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः

सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति

Mahabharata

Vana Parva, Adhyaya 36, Verse 14

नकुलः सहदेवश्च वृद्धा माता च वीरसूः

तवैव प्रियमिच्छन्त आसते जडमूकवत्

Mahabharata

Vana Parva, Adhyaya 36, Verse 15

सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः

अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः

Mahabharata

Vana Parva, Adhyaya 36, Verse 16

प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन

सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः

Mahabharata

Vana Parva, Adhyaya 36, Verse 17

नेतः पापीयसी काचिदापद्राजन्भविष्यति

यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते

Mahabharata

Vana Parva, Adhyaya 36, Verse 18

शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप

क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति

Mahabharata

Vana Parva, Adhyaya 36, Verse 19

घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः

अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः

Mahabharata

Vana Parva, Adhyaya 36, Verse 20

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्

क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान्

Mahabharata

Vana Parva, Adhyaya 36, Verse 21

कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्

बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च

Mahabharata

Vana Parva, Adhyaya 36, Verse 22

तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम्

छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि

Mahabharata

Vana Parva, Adhyaya 36, Verse 23

अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च

दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया

Mahabharata

Vana Parva, Adhyaya 36, Verse 24

बृहच्छाल इवानूपे शाखापुष्पपलाशवान्

हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति

Mahabharata

Vana Parva, Adhyaya 36, Verse 25

इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू

नकुलः सहदेवश्च कथं पार्थ चरिष्यतः

Mahabharata

Vana Parva, Adhyaya 36, Verse 26

पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्

विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति

Mahabharata

Vana Parva, Adhyaya 36, Verse 27

मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः

अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम्

Mahabharata

Vana Parva, Adhyaya 36, Verse 28

तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः

राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः

Mahabharata

Vana Parva, Adhyaya 36, Verse 29

न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः

अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः

Mahabharata

Vana Parva, Adhyaya 36, Verse 30

तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान्

आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम्