Mahabharata

Vana Parva, Adhyaya 35

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 35, Verse 1

असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि

न त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात्

Mahabharata

Vana Parva, Adhyaya 35, Verse 2

अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्

तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः

Mahabharata

Vana Parva, Adhyaya 35, Verse 3

महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान्

अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन

Mahabharata

Vana Parva, Adhyaya 35, Verse 4

अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्च

शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम्

Mahabharata

Vana Parva, Adhyaya 35, Verse 5

यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः

न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत्

Mahabharata

Vana Parva, Adhyaya 35, Verse 6

स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन्

दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः

Mahabharata

Vana Parva, Adhyaya 35, Verse 7

त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नः

यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम्

Mahabharata

Vana Parva, Adhyaya 35, Verse 8

वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो

अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः

Mahabharata

Vana Parva, Adhyaya 35, Verse 9

त्वां चेच्छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्म

अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ

Mahabharata

Vana Parva, Adhyaya 35, Verse 10

चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान्

ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः

Mahabharata

Vana Parva, Adhyaya 35, Verse 11

वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान्

वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति

Mahabharata

Vana Parva, Adhyaya 35, Verse 12

तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे

इत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः

Mahabharata

Vana Parva, Adhyaya 35, Verse 13

सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत्

उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन्

Mahabharata

Vana Parva, Adhyaya 35, Verse 14

तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः

आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात्

Mahabharata

Vana Parva, Adhyaya 35, Verse 15

तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः

बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत्

Mahabharata

Vana Parva, Adhyaya 35, Verse 16

प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः

प्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ

Mahabharata

Vana Parva, Adhyaya 35, Verse 17

भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा

यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम

Mahabharata

Vana Parva, Adhyaya 35, Verse 18

न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये

कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः

Mahabharata

Vana Parva, Adhyaya 35, Verse 19

यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा

महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके

Mahabharata

Vana Parva, Adhyaya 35, Verse 20

श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते

मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम्

Mahabharata

Vana Parva, Adhyaya 35, Verse 21

मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च

राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति