Vana Parva, Adhyaya 34, Verse 1
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्
Containing 85 sacred Sanskrit shlokas with multi-author commentaries and translations.
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम्
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः
अवीराचरितां राजन्न बलस्थैर्निषेविताम्
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः
न चाहमभिनन्दामि न च माद्रीसुतावुभौ
भवान्धर्मो धर्म इति सततं व्रतकर्शितः
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम्
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम्
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम्
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि
अथ वा वयमेवैतान्निहत्य भरतर्षभ
आददीमहि गां सर्वां तथापि श्रेय एव नः
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत्
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः
सततं यश्च कामार्थी नेतरावनुतिष्ठति
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्
कामतो रममाणस्य मीनस्येवाम्भसः क्षये
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः
इतरेतरयोनी तौ विद्धि मेघोदधी यथा
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते
स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते