Mahabharata

Vana Parva, Adhyaya 33

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 33, Verse 1

नावमन्ये न गर्हे च धर्मं पार्थ कथंचन

ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 2

आर्ताहं प्रलपामीदमिति मां विद्धि भारत

भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे

Mahabharata

Vana Parva, Adhyaya 33, Verse 3

कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन

अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः

Mahabharata

Vana Parva, Adhyaya 33, Verse 4

आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम्

जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 33, Verse 5

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ

इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च

Mahabharata

Vana Parva, Adhyaya 33, Verse 6

उत्थानमभिजानन्ति सर्वभूतानि भारत

प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 7

पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः

अपि धाता विधाता च यथायमुदके बकः

Mahabharata

Vana Parva, Adhyaya 33, Verse 8

स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः

कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा

Mahabharata

Vana Parva, Adhyaya 33, Verse 9

तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा

भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि

Mahabharata

Vana Parva, Adhyaya 33, Verse 10

उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि

अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्

नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन

Mahabharata

Vana Parva, Adhyaya 33, Verse 11

यश्च दिष्टपरो लोके यश्चायं हठवादकः

उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते

Mahabharata

Vana Parva, Adhyaya 33, Verse 12

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत्

अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि

Mahabharata

Vana Parva, Adhyaya 33, Verse 13

तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्

आसीत न चिरं जीवेदनाथ इव दुर्बलः

Mahabharata

Vana Parva, Adhyaya 33, Verse 14

अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः

तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्

Mahabharata

Vana Parva, Adhyaya 33, Verse 15

यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत

दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 16

यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः

प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 17

स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात्

तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम

Mahabharata

Vana Parva, Adhyaya 33, Verse 18

एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा

यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः

Mahabharata

Vana Parva, Adhyaya 33, Verse 19

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः

विदधाति विभज्येह फलं पूर्वकृतं नृणाम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 20

यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम्

तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 21

कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि

स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः

Mahabharata

Vana Parva, Adhyaya 33, Verse 22

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः

सर्वभूतानि कौन्तेय कारयत्यवशान्यपि

Mahabharata

Vana Parva, Adhyaya 33, Verse 23

मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा

बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 24

संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ

अगारनगराणां हि सिद्धिः पुरुषहैतुकी

Mahabharata

Vana Parva, Adhyaya 33, Verse 25

तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः

धिया धीरो विजानीयादुपायं चास्य सिद्धये

Mahabharata

Vana Parva, Adhyaya 33, Verse 26

ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये

तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः

Mahabharata

Vana Parva, Adhyaya 33, Verse 27

कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम्

इदं त्वकुशलेनेति विशेषादुपलभ्यते

Mahabharata

Vana Parva, Adhyaya 33, Verse 28

इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्

पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्

Mahabharata

Vana Parva, Adhyaya 33, Verse 29

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते

असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह

Mahabharata

Vana Parva, Adhyaya 33, Verse 30

सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत

पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते