Mahabharata

Vana Parva, Adhyaya 32

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 32, Verse 1

वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः

उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे

Mahabharata

Vana Parva, Adhyaya 32, Verse 2

नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत

ददामि देयमित्येव यजे यष्टव्यमित्युत

Mahabharata

Vana Parva, Adhyaya 32, Verse 3

अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्

गृहानावसता कृष्णे यथाशक्ति करोमि तत्

Mahabharata

Vana Parva, Adhyaya 32, Verse 4

धर्मं चरामि सुश्रोणि न धर्मफलकारणात्

आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च

धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम्

Mahabharata

Vana Parva, Adhyaya 32, Verse 5

न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति

यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः

Mahabharata

Vana Parva, Adhyaya 32, Verse 6

अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः

धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः

Mahabharata

Vana Parva, Adhyaya 32, Verse 7

धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः

वेदाच्छूद्र इवापेयात्स लोकादजरामरात्

Mahabharata

Vana Parva, Adhyaya 32, Verse 8

वेदाध्यायी धर्मपरः कुले जातो यशस्विनि

स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः

Mahabharata

Vana Parva, Adhyaya 32, Verse 9

पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः

शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते

Mahabharata

Vana Parva, Adhyaya 32, Verse 10

प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः

मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम्

Mahabharata

Vana Parva, Adhyaya 32, Verse 11

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः

अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः

Mahabharata

Vana Parva, Adhyaya 32, Verse 12

प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्

शापानुग्रहणे शक्तान्देवैरपि गरीयसः

Mahabharata

Vana Parva, Adhyaya 32, Verse 13

एते हि धर्ममेवादौ वर्णयन्ति सदा मम

कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः

Mahabharata

Vana Parva, Adhyaya 32, Verse 14

अतो नार्हसि कल्याणि धातारं धर्ममेव च

रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च

Mahabharata

Vana Parva, Adhyaya 32, Verse 15

धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति

आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः

Mahabharata

Vana Parva, Adhyaya 32, Verse 16

इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम्

एतावान्मन्यते बालो मोहमन्यत्र गच्छति

Mahabharata

Vana Parva, Adhyaya 32, Verse 17

प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते

ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते

Mahabharata

Vana Parva, Adhyaya 32, Verse 18

प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः

कामलोभानुगो मूढो नरकं प्रतिपद्यते

Mahabharata

Vana Parva, Adhyaya 32, Verse 19

यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते

अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते

Mahabharata

Vana Parva, Adhyaya 32, Verse 20

आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन्

सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति

Mahabharata

Vana Parva, Adhyaya 32, Verse 21

शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः

पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः

Mahabharata

Vana Parva, Adhyaya 32, Verse 22

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्

सैव नौः सागरस्येव वणिजः पारमृच्छतः

Mahabharata

Vana Parva, Adhyaya 32, Verse 23

अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः

अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते

Mahabharata

Vana Parva, Adhyaya 32, Verse 24

निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्

विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः

Mahabharata

Vana Parva, Adhyaya 32, Verse 25

तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च

दानमार्जवमेतानि यदि स्युरफलानि वै

Mahabharata

Vana Parva, Adhyaya 32, Verse 26

नाचरिष्यन्परे धर्मं परे परतरे च ये

विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः

Mahabharata

Vana Parva, Adhyaya 32, Verse 27

ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः

ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः

Mahabharata

Vana Parva, Adhyaya 32, Verse 28

फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे

धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम्

Mahabharata

Vana Parva, Adhyaya 32, Verse 29

स चायं सफलो धर्मो न धर्मोऽफल उच्यते

दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा

Mahabharata

Vana Parva, Adhyaya 32, Verse 30

त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम्

वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्