Mahabharata

Vana Parva, Adhyaya 31

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 31, Verse 1

नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव

पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः

Mahabharata

Vana Parva, Adhyaya 31, Verse 2

नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च

पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्

Mahabharata

Vana Parva, Adhyaya 31, Verse 3

त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्

यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः

Mahabharata

Vana Parva, Adhyaya 31, Verse 4

न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत

धर्मात्प्रियतरं किंचिदपि चेज्जीवितादिह

Mahabharata

Vana Parva, Adhyaya 31, Verse 5

धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते

ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः

Mahabharata

Vana Parva, Adhyaya 31, Verse 6

भीमसेनार्जुनौ चैव माद्रेयौ च मया सह

त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः

Mahabharata

Vana Parva, Adhyaya 31, Verse 7

राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः

इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति

Mahabharata

Vana Parva, Adhyaya 31, Verse 8

अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते

बुद्धिः सततमन्वेति छायेव पुरुषं निजा

Mahabharata

Vana Parva, Adhyaya 31, Verse 9

नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः

अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत

Mahabharata

Vana Parva, Adhyaya 31, Verse 10

स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्

दैवतानि पितॄंश्चैव सततं पार्थ सेवसे

Mahabharata

Vana Parva, Adhyaya 31, Verse 11

ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः

यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत

Mahabharata

Vana Parva, Adhyaya 31, Verse 12

आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि

नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते

Mahabharata

Vana Parva, Adhyaya 31, Verse 13

यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते

तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि

Mahabharata

Vana Parva, Adhyaya 31, Verse 14

इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये

वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा

Mahabharata

Vana Parva, Adhyaya 31, Verse 15

अस्मिन्नपि महारण्ये विजने दस्युसेविते

राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति

Mahabharata

Vana Parva, Adhyaya 31, Verse 16

अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः

एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः

Mahabharata

Vana Parva, Adhyaya 31, Verse 17

राजन्परीतया बुद्ध्या विषमेऽक्षपराजये

राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः

Mahabharata

Vana Parva, Adhyaya 31, Verse 18

ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः

कथमक्षव्यसनजा बुद्धिरापतिता तव

Mahabharata

Vana Parva, Adhyaya 31, Verse 19

अतीव मोहमायाति मनश्च परिदूयते

निशाम्य ते दुःखमिदमिमां चापदमीदृशीम्

Mahabharata

Vana Parva, Adhyaya 31, Verse 20

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा

Mahabharata

Vana Parva, Adhyaya 31, Verse 21

धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये

दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्

Mahabharata

Vana Parva, Adhyaya 31, Verse 22

यथा दारुमयी योषा नरवीर समाहिता

ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः

Mahabharata

Vana Parva, Adhyaya 31, Verse 23

आकाश इव भूतानि व्याप्य सर्वाणि भारत

ईश्वरो विदधातीह कल्याणं यच्च पापकम्

Mahabharata

Vana Parva, Adhyaya 31, Verse 24

शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः

ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः

Mahabharata

Vana Parva, Adhyaya 31, Verse 25

मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः

धातुरादेशमन्वेति तन्मयो हि तदर्पणः

Mahabharata

Vana Parva, Adhyaya 31, Verse 26

नात्माधीनो मनुष्योऽयं कालं भवति कंचन

स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः

Mahabharata

Vana Parva, Adhyaya 31, Verse 27

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः

ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च

Mahabharata

Vana Parva, Adhyaya 31, Verse 28

यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः

धातुरेवं वशं यान्ति सर्वभूतानि भारत

Mahabharata

Vana Parva, Adhyaya 31, Verse 29

आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः

व्याप्य भूतानि चरते न चायमिति लक्ष्यते

Mahabharata

Vana Parva, Adhyaya 31, Verse 30

हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्

येन कारयते कर्म शुभाशुभफलं विभुः