Vana Parva, Adhyaya 30, Verse 1
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ
यो हि संहरते क्रोधं भावस्तस्य सुशोभने
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे
तस्याभावाय भवति क्रोधः परमदारुणः
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा
हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत्
एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते
आत्मानं च परं चैव त्रायते महतो भयात्
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति
स नाशयित्वा क्लेष्टारं परलोके च नन्दति
तस्माद्बलवता चैव दुर्बलेन च नित्यदा
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः
क्षमावतो जयो नित्यं साधोरिह सतां मतम्
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम्
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम्
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः
न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम्
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च
एवं संकुपिते लोके जन्म कृष्णे न विद्यते
प्रजानां संधिमूलं हि जन्म विद्धि शुभानने
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च