Mahabharata

Vana Parva, Adhyaya 29

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 29, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च

Mahabharata

Vana Parva, Adhyaya 29, Verse 2

असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्

बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः

Mahabharata

Vana Parva, Adhyaya 29, Verse 3

क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत

एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते

Mahabharata

Vana Parva, Adhyaya 29, Verse 4

श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्

करिष्यामि हि तत्सर्वं यथावदनुशासनम्

Mahabharata

Vana Parva, Adhyaya 29, Verse 5

तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः

सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते

Mahabharata

Vana Parva, Adhyaya 29, Verse 6

न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा

इति तात विजानीहि द्वयमेतदसंशयम्

Mahabharata

Vana Parva, Adhyaya 29, Verse 7

यो नित्यं क्षमते तात बहून्दोषान्स विन्दति

भृत्याः परिभवन्त्येनमुदासीनास्तथैव च

Mahabharata

Vana Parva, Adhyaya 29, Verse 8

सर्वभूतानि चाप्यस्य न नमन्ते कदाचन

तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता

Mahabharata

Vana Parva, Adhyaya 29, Verse 9

अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम्

आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः

Mahabharata

Vana Parva, Adhyaya 29, Verse 10

यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च

भोजनान्यथ पानानि सर्वोपकरणानि च

Mahabharata

Vana Parva, Adhyaya 29, Verse 11

आददीरन्नधिकृता यथाकाममचेतसः

प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्

Mahabharata

Vana Parva, Adhyaya 29, Verse 12

न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन

अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम्

Mahabharata

Vana Parva, Adhyaya 29, Verse 13

क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि

प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः

Mahabharata

Vana Parva, Adhyaya 29, Verse 14

अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः

दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः

Mahabharata

Vana Parva, Adhyaya 29, Verse 15

तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात्

दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते

Mahabharata

Vana Parva, Adhyaya 29, Verse 16

एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्

अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम्

Mahabharata

Vana Parva, Adhyaya 29, Verse 17

अस्थाने यदि वा स्थाने सततं रजसावृतः

क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा

Mahabharata

Vana Parva, Adhyaya 29, Verse 18

मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः

प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा

Mahabharata

Vana Parva, Adhyaya 29, Verse 19

सोऽवमानादर्थहानिमुपालम्भमनादरम्

संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः

Mahabharata

Vana Parva, Adhyaya 29, Verse 20

क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन्

भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि

Mahabharata

Vana Parva, Adhyaya 29, Verse 21

योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति

तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव

Mahabharata

Vana Parva, Adhyaya 29, Verse 22

यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्

अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्

तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्

Mahabharata

Vana Parva, Adhyaya 29, Verse 23

काले मृदुर्यो भवति काले भवति दारुणः

स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च

Mahabharata

Vana Parva, Adhyaya 29, Verse 24

क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्

ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः

Mahabharata

Vana Parva, Adhyaya 29, Verse 25

पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि

उपकारेण तत्तस्य क्षन्तव्यमपराधिनः

Mahabharata

Vana Parva, Adhyaya 29, Verse 26

अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम्

न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै

Mahabharata

Vana Parva, Adhyaya 29, Verse 27

अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्

पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून्

Mahabharata

Vana Parva, Adhyaya 29, Verse 28

सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत्

द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्

Mahabharata

Vana Parva, Adhyaya 29, Verse 29

अजानता भवेत्कश्चिदपराधः कृतो यदि

क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया

Mahabharata

Vana Parva, Adhyaya 29, Verse 30

मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम्

नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः