Mahabharata

Vana Parva, Adhyaya 28

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 28, Verse 1

ततो वनगताः पार्थाः सायाह्ने सह कृष्णया

उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः

Mahabharata

Vana Parva, Adhyaya 28, Verse 2

प्रिया च दर्शनीया च पण्डिता च पतिव्रता

ततः कृष्णा धर्मराजमिदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 28, Verse 3

न नूनं तस्य पापस्य दुःखमस्मासु किंचन

विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः

Mahabharata

Vana Parva, Adhyaya 28, Verse 4

यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्

भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन

वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः

Mahabharata

Vana Parva, Adhyaya 28, Verse 5

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः

यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा

Mahabharata

Vana Parva, Adhyaya 28, Verse 6

सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः

ईदृशं दुःखमानीय मोदते पापपूरुषः

Mahabharata

Vana Parva, Adhyaya 28, Verse 7

चतुर्णामेव पापानामश्रु वै नापतत्तदा

त्वयि भारत निष्क्रान्ते वनायाजिनवाससि

Mahabharata

Vana Parva, Adhyaya 28, Verse 8

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः

दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च

Mahabharata

Vana Parva, Adhyaya 28, Verse 9

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम

दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्

Mahabharata

Vana Parva, Adhyaya 28, Verse 10

इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्

शोचामि त्वां महाराज दुःखानर्हं सुखोचितम्

Mahabharata

Vana Parva, Adhyaya 28, Verse 11

दान्तं यच्च सभामध्ये आसनं रत्नभूषितम्

दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम्

Mahabharata

Vana Parva, Adhyaya 28, Verse 12

यदपश्यं सभायां त्वां राजभिः परिवारितम्

तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे

Mahabharata

Vana Parva, Adhyaya 28, Verse 13

या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्

सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत

Mahabharata

Vana Parva, Adhyaya 28, Verse 14

या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा

दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्

Mahabharata

Vana Parva, Adhyaya 28, Verse 15

यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः

ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्

Mahabharata

Vana Parva, Adhyaya 28, Verse 16

यतीनामगृहाणां ते तथैव गृहमेधिनाम्

दीयते भोजनं राजन्नतीव गुणवत्प्रभो

तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे

Mahabharata

Vana Parva, Adhyaya 28, Verse 17

यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः

अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः

Mahabharata

Vana Parva, Adhyaya 28, Verse 18

सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः

अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः

Mahabharata

Vana Parva, Adhyaya 28, Verse 19

भीमसेनमिमं चापि दुःखितं वनवासिनम्

ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते

Mahabharata

Vana Parva, Adhyaya 28, Verse 20

भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत

सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते

Mahabharata

Vana Parva, Adhyaya 28, Verse 21

सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

Mahabharata

Vana Parva, Adhyaya 28, Verse 22

कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः

त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः

Mahabharata

Vana Parva, Adhyaya 28, Verse 23

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना

शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः

Mahabharata

Vana Parva, Adhyaya 28, Verse 24

यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः

यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे

Mahabharata

Vana Parva, Adhyaya 28, Verse 25

तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः

ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते

Mahabharata

Vana Parva, Adhyaya 28, Verse 26

दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्

न च ते वर्धते मन्युस्तेन मुह्यामि भारत

Mahabharata

Vana Parva, Adhyaya 28, Verse 27

यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

Mahabharata

Vana Parva, Adhyaya 28, Verse 28

यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः

प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः

Mahabharata

Vana Parva, Adhyaya 28, Verse 29

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

Mahabharata

Vana Parva, Adhyaya 28, Verse 30

श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे

नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते