Mahabharata

Vana Parva, Adhyaya 26

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 26, Verse 1

तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम्

विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु

Mahabharata

Vana Parva, Adhyaya 26, Verse 2

यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः

द्विजातिमुख्यानृषभः कुरूणां; संतर्पयामास महानुभावः

Mahabharata

Vana Parva, Adhyaya 26, Verse 3

इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम्

पुरोहितः सर्वसमृद्धतेजा;श्चकार धौम्यः पितृवत्कुरूणाम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 4

अपेत्य राष्ट्राद्वसतां तु तेषा;मृषिः पुराणोऽतिथिराजगाम

तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 5

स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च

संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः

Mahabharata

Vana Parva, Adhyaya 26, Verse 6

तं धर्मराजो विमना इवाब्रवी;त्सर्वे ह्रिया सन्ति तपस्विनोऽमी

भवानिदं किं स्मयतीव हृष्ट;स्तपस्विनां पश्यतां मामुदीक्ष्य

Mahabharata

Vana Parva, Adhyaya 26, Verse 7

न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः

तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि

Mahabharata

Vana Parva, Adhyaya 26, Verse 8

स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात्

धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ

Mahabharata

Vana Parva, Adhyaya 26, Verse 9

सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता

पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार

Mahabharata

Vana Parva, Adhyaya 26, Verse 10

स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः

विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 11

नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य

सत्येन तेऽप्यजयंस्तात लोका;न्नेशे बलस्येति चरेदधर्मम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 12

अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम्

विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 13

धात्रा विधिर्यो विहितः पुराण;स्तं पूजयन्तो नरवर्य सन्तः

सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 14

महाबलान्पर्वतकूटमात्रा;न्विषाणिनः पश्य गजान्नरेन्द्र

स्थितान्निदेशे नरवर्य धातु;र्नेशे बलस्येति चरेदधर्मम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 15

सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा

स्वयोनितस्तत्कुरुते प्रभावा;न्नेशे बलस्येति चरेदधर्मम्

Mahabharata

Vana Parva, Adhyaya 26, Verse 16

सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य

यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ

Mahabharata

Vana Parva, Adhyaya 26, Verse 17

यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य

ततः श्रियं तेजसा स्वेन दीप्ता;मादास्यसे पार्थिव कौरवेभ्यः

Mahabharata

Vana Parva, Adhyaya 26, Verse 18

तमेवमुक्त्वा वचनं महर्षि;स्तपस्विमध्ये सहितं सुहृद्भिः

आमन्त्र्य धौम्यं सहितांश्च पार्थां;स्ततः प्रतस्थे दिशमुत्तरां सः