Mahabharata

Vana Parva, Adhyaya 25

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 25, Verse 1

ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः

अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 25, Verse 2

द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने

समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्

Mahabharata

Vana Parva, Adhyaya 25, Verse 3

बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्

यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि

Mahabharata

Vana Parva, Adhyaya 25, Verse 4

एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः

गुरुवन्मानवगुरुं मानयित्वा मनस्विनम्

Mahabharata

Vana Parva, Adhyaya 25, Verse 5

भवानेव महर्षीणां वृद्धानां पर्युपासिता

अज्ञातं मानुषे लोके भवतो नास्ति किंचन

Mahabharata

Vana Parva, Adhyaya 25, Verse 6

त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ

द्वैपायनप्रभृतयो नारदश्च महातपाः

Mahabharata

Vana Parva, Adhyaya 25, Verse 7

यः सर्वलोकद्वाराणि नित्यं संचरते वशी

देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि

Mahabharata

Vana Parva, Adhyaya 25, Verse 8

सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः

प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव

Mahabharata

Vana Parva, Adhyaya 25, Verse 9

त्वमेव राजञ्जानासि श्रेयःकारणमेव च

यत्रेच्छसि महाराज निवासं तत्र कुर्महे

Mahabharata

Vana Parva, Adhyaya 25, Verse 10

इदं द्वैतवनं नाम सरः पुण्यजनोचितम्

बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्

Mahabharata

Vana Parva, Adhyaya 25, Verse 11

अत्रेमा द्वादश समा विहरेमेति रोचये

यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान्

Mahabharata

Vana Parva, Adhyaya 25, Verse 12

ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्

गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः

Mahabharata

Vana Parva, Adhyaya 25, Verse 13

ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः

ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः

Mahabharata

Vana Parva, Adhyaya 25, Verse 14

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः

स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः

Mahabharata

Vana Parva, Adhyaya 25, Verse 15

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्

तपस्विनः सत्यशीलाः शतशः संशितव्रताः

Mahabharata

Vana Parva, Adhyaya 25, Verse 16

ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह

पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः

Mahabharata

Vana Parva, Adhyaya 25, Verse 17

तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः

तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श

Mahabharata

Vana Parva, Adhyaya 25, Verse 18

महाद्रुमाणां शिखरेषु तस्थु;र्मनोरमां वाचमुदीरयन्तः

मयूरदात्यूहचकोरसंघा;स्तस्मिन्वने काननकोकिलाश्च

Mahabharata

Vana Parva, Adhyaya 25, Verse 19

करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम्

महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श

Mahabharata

Vana Parva, Adhyaya 25, Verse 20

मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम्

तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान्

Mahabharata

Vana Parva, Adhyaya 25, Verse 21

ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत्

विवेश धर्मात्मवतां वरिष्ठ;स्त्रिविष्टपं शक्र इवामितौजाः

Mahabharata

Vana Parva, Adhyaya 25, Verse 22

तं सत्यसंधं सहिताभिपेतु;र्दिदृक्षवश्चारणसिद्धसंघाः

वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः

Mahabharata

Vana Parva, Adhyaya 25, Verse 23

स तत्र सिद्धानभिवाद्य सर्वा;न्प्रत्यर्चितो राजवद्देववच्च

विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः

Mahabharata

Vana Parva, Adhyaya 25, Verse 24

स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य

प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा

Mahabharata

Vana Parva, Adhyaya 25, Verse 25

भीमश्च कृष्णा च धनंजयश्च; यमौ च ते चानुचरा नरेन्द्रम्

विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः

Mahabharata

Vana Parva, Adhyaya 25, Verse 26

लतावतानावनतः स पाण्डवै;र्महाद्रुमः पञ्चभिरुग्रधन्विभिः

बभौ निवासोपगतैर्महात्मभि;र्महागिरिर्वारणयूथपैरिव