Mahabharata

Vana Parva, Adhyaya 24

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 24, Verse 1

तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च

यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान्

Mahabharata

Vana Parva, Adhyaya 24, Verse 2

आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः

हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः

Mahabharata

Vana Parva, Adhyaya 24, Verse 3

प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान्

मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः

Mahabharata

Vana Parva, Adhyaya 24, Verse 4

ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च

तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन

Mahabharata

Vana Parva, Adhyaya 24, Verse 5

ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः

तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम्

Mahabharata

Vana Parva, Adhyaya 24, Verse 6

स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः

तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम्

Mahabharata

Vana Parva, Adhyaya 24, Verse 7

पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा

ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः

Mahabharata

Vana Parva, Adhyaya 24, Verse 8

ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः

हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः

Mahabharata

Vana Parva, Adhyaya 24, Verse 9

वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान्

पौरानिमाञ्जानपदांश्च सर्वा;न्हित्वा प्रयातः क्व नु धर्मराजः

Mahabharata

Vana Parva, Adhyaya 24, Verse 10

धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम्

अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः

Mahabharata

Vana Parva, Adhyaya 24, Verse 11

स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम्

शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः

Mahabharata

Vana Parva, Adhyaya 24, Verse 12

चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम्

तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः

Mahabharata

Vana Parva, Adhyaya 24, Verse 13

तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच

आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि

Mahabharata

Vana Parva, Adhyaya 24, Verse 14

द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च

प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः

Mahabharata

Vana Parva, Adhyaya 24, Verse 15

इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन्

मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम्

Mahabharata

Vana Parva, Adhyaya 24, Verse 16

आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च

प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम्