Mahabharata

Vana Parva, Adhyaya 23

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 23, Verse 1

ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः

शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 2

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः

अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः

Mahabharata

Vana Parva, Adhyaya 23, Verse 3

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह

अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 4

अथ दानवसंघास्ते विकृताननमूर्धजाः

उदक्रोशन्महाराज विष्ठिते मयि भारत

Mahabharata

Vana Parva, Adhyaya 23, Verse 5

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे

अयोजयं तद्वधाय ततः शब्द उपारमत्

Mahabharata

Vana Parva, Adhyaya 23, Verse 6

हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः

शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः

Mahabharata

Vana Parva, Adhyaya 23, Verse 7

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्

शब्दोऽपरो महाराज तत्रापि प्राहरं शरान्

Mahabharata

Vana Parva, Adhyaya 23, Verse 8

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत

नादयामासुरसुरास्ते चापि निहता मया

Mahabharata

Vana Parva, Adhyaya 23, Verse 9

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत

सौभं कामगमं वीर मोहयन्मम चक्षुषी

Mahabharata

Vana Parva, Adhyaya 23, Verse 10

ततो लोकान्तकरणो दानवो वानराकृतिः

शिलावर्षेण सहसा महता मां समावृणोत्

Mahabharata

Vana Parva, Adhyaya 23, Verse 11

सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः

वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 12

ततोऽहं पर्वतचितः सहयः सहसारथिः

अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः

Mahabharata

Vana Parva, Adhyaya 23, Verse 13

ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा

ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः

Mahabharata

Vana Parva, Adhyaya 23, Verse 14

ततो हाहाकृतं सर्वमभूत्किल विशां पते

द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि

Mahabharata

Vana Parva, Adhyaya 23, Verse 15

ततो विषण्णमनसो मम राजन्सुहृज्जनाः

रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः

Mahabharata

Vana Parva, Adhyaya 23, Verse 16

द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि

एवं विजितवान्वीर पश्चादश्रौषमच्युत

Mahabharata

Vana Parva, Adhyaya 23, Verse 17

ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम्

वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 18

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः

हया मम महाराज वेपमाना इवाभवन्

Mahabharata

Vana Parva, Adhyaya 23, Verse 19

मेघजालमिवाकाशे विदार्याभ्युदितं रविम्

दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः

Mahabharata

Vana Parva, Adhyaya 23, Verse 20

ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप

साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 21

अलं कृष्णावमन्यैनं साधु यत्नं समाचर

मार्दवं सखितां चैव शाल्वादद्य व्यपाहर

Mahabharata

Vana Parva, Adhyaya 23, Verse 22

जहि शाल्वं महाबाहो मैनं जीवय केशव

सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्

Mahabharata

Vana Parva, Adhyaya 23, Verse 23

न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा

योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः

Mahabharata

Vana Parva, Adhyaya 23, Verse 24

स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो

जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः

Mahabharata

Vana Parva, Adhyaya 23, Verse 25

नैष मार्दवसाध्यो वै मतो नापि सखा तव

येन त्वं योधितो वीर द्वारका चावमर्दिता

Mahabharata

Vana Parva, Adhyaya 23, Verse 26

एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः

तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 27

वधाय शाल्वराजस्य सौभस्य च निपातने

दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति

Mahabharata

Vana Parva, Adhyaya 23, Verse 28

ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्

आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्

Mahabharata

Vana Parva, Adhyaya 23, Verse 29

यक्षाणां राक्षसानां च दानवानां च संयुगे

राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्

Mahabharata

Vana Parva, Adhyaya 23, Verse 30

क्षुरान्तममलं चक्रं कालान्तकयमोपमम्

अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम्