Mahabharata

Vana Parva, Adhyaya 21

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 21, Verse 1

आनर्तनगरं मुक्तं ततोऽहमगमं तदा

महाक्रतौ राजसूये निवृत्ते नृपते तव

Mahabharata

Vana Parva, Adhyaya 21, Verse 2

अपश्यं द्वारकां चाहं महाराज हतत्विषम्

निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 3

अनभिज्ञेयरूपाणि द्वारकोपवनानि च

दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 4

अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम्

किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 5

एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत्

रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम

Mahabharata

Vana Parva, Adhyaya 21, Verse 6

ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः

विनाशे शाल्वराजस्य तदैवाकरवं मतिम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 7

ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्

राजानमाहुकं चैव तथैवानकदुन्दुभिम्

सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा

Mahabharata

Vana Parva, Adhyaya 21, Verse 8

अप्रमादः सदा कार्यो नगरे यादवर्षभाः

शाल्वराजविनाशाय प्रयातं मां निबोधत

Mahabharata

Vana Parva, Adhyaya 21, Verse 9

नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति

सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः

त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी

Mahabharata

Vana Parva, Adhyaya 21, Verse 10

ते मयाश्वासिता वीरा यथावद्भरतर्षभ

सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान्

Mahabharata

Vana Parva, Adhyaya 21, Verse 11

तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः

वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 12

सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः

प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप

Mahabharata

Vana Parva, Adhyaya 21, Verse 13

प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः

कॢप्तेन चतुरङ्गेण बलेन जितकाशिना

Mahabharata

Vana Parva, Adhyaya 21, Verse 14

समतीत्य बहून्देशान्गिरींश्च बहुपादपान्

सरांसि सरितश्चैव मार्त्तिकावतमासदम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 15

तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात्

प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 16

ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः

समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन्

Mahabharata

Vana Parva, Adhyaya 21, Verse 17

स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर

आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः

Mahabharata

Vana Parva, Adhyaya 21, Verse 18

तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः

पुरं नासाद्यत शरैस्ततो मां रोष आविशत्

Mahabharata

Vana Parva, Adhyaya 21, Verse 19

स चापि पापप्रकृतिर्दैतेयापसदो नृप

मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः

Mahabharata

Vana Parva, Adhyaya 21, Verse 20

सैनिकान्मम सूतं च हयांश्च समवाकिरत्

अचिन्तयन्तस्तु शरान्वयं युध्याम भारत

Mahabharata

Vana Parva, Adhyaya 21, Verse 21

ततः शतसहस्राणि शराणां नतपर्वणाम्

चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः

Mahabharata

Vana Parva, Adhyaya 21, Verse 22

ते हयान्मे रथं चैव तदा दारुकमेव च

छादयामासुरसुरा बाणैर्मर्मविभेदिभिः

Mahabharata

Vana Parva, Adhyaya 21, Verse 23

न हया न रथो वीर न यन्ता मम दारुकः

अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे

Mahabharata

Vana Parva, Adhyaya 21, Verse 24

ततोऽहमपि कौरव्य शराणामयुतान्बहून्

अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम्

Mahabharata

Vana Parva, Adhyaya 21, Verse 25

न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत

खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत्

Mahabharata

Vana Parva, Adhyaya 21, Verse 26

ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः

हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः

Mahabharata

Vana Parva, Adhyaya 21, Verse 27

मत्कार्मुकविनिर्मुक्ता दानवानां महारणे

अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव

Mahabharata

Vana Parva, Adhyaya 21, Verse 28

ततो हलहलाशब्दः सौभमध्ये व्यवर्धत

वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे

Mahabharata

Vana Parva, Adhyaya 21, Verse 29

ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः

नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः

Mahabharata

Vana Parva, Adhyaya 21, Verse 30

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्

जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्