Vana Parva, Adhyaya 18, Verse 1
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्
उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम्
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान्
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्
स विद्युच्चलितं चापं विहरन्वै तलात्तलम्
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः
नास्य विक्षिपतश्चापं संदधानस्य चासकृत्
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे
मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य
सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम्
जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी
वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप
अभियानं तु वीरेण प्रद्युम्नेन महाहवे
नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह
स रोषमदमत्तो वै कामगादवरुह्य च
प्रद्युम्नं योधयामास शाल्वः परपुरंजयः
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः
समेता ददृशुर्लोका बलिवासवयोरिव
तस्य मायामयो वीर रथो हेमपरिष्कृतः
सध्वजः सपताकश्च सानुकर्षः सतूणवान्
स तं रथवरं श्रीमान्समारुह्य किल प्रभो
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे
प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव
स तैरभिहतः संख्ये नामर्षयत सौभराट्
शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः
बिभेद हृदयं पत्री स पपात मुमोह च
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि
संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम्
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते
नष्टसंज्ञे निपतिते तदा सौभपतौ नृप
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम्
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम्
ननाद सिंहनादं वै नादेनापूरयन्महीम्
ततो मोहं समापन्ने तनये मम भारत
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान्
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे