Vana Parva, Adhyaya 16, Verse 1
वासुदेव महाबाहो विस्तरेण महामते
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
वासुदेव महाबाहो विस्तरेण महामते
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम्
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्
अभिसारेण सर्वेण तत्र युद्धमवर्तत
पुरी समन्ताद्विहिता सपताका सतोरणा
सचक्रा सहुडा चैव सयन्त्रखनका तथा
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा
सकचग्रहणी चैव सोल्कालातावपोथिका
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका
समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला
सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा
लोहचर्मवती चापि साग्निः सहुडशृङ्गिका
शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ
द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः
पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे
मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता
उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः
आघोषितं च नगरे न पातव्या सुरेति ह
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः
प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः
आनर्ताश्च तथा सर्वे नटनर्तकगायनाः
बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान्
संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्
प्रकृत्या चायुधोपेतं विशेषेण तदानघ
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे
अनु रथ्यासु सर्वासु चत्वरेषु च कौरव
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्
कृतापदानं च तदा बलमासीन्महाभुज
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन