Vana Parva, Adhyaya 15, Verse 1
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन
क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन
क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ
विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम्
महातेजा महाबाहुर्यः स राजा महायशाः
दमघोषात्मजो वीरः शिशुपालो मया हतः
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति
स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान्
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत
स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः
आगतः कामगं सौभमारुह्यैव नृशंसकृत्
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः
वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम्
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति
मया किल रणे युद्धं काङ्क्षमाणः स सौभराट्
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम्
मम पापस्वभावेन भ्राता येन निपातितः
शिशुपालो महीपालस्तं वधिष्ये महीतले
भ्राता बालश्च राजा च न च संग्राममूर्धनि
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्
एवमादि महाराज विलप्य दिवमास्थितः
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः
मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः
ततोऽहमपि कौरव्य रोषव्याकुललोचनः
निश्चित्य मनसा राजन्वधायास्य मनो दधे
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः
ततः सौभवधायाहं प्रतस्थे पृथिवीपते
स मया सागरावर्ते दृष्ट आसीत्परीप्सता
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप
आहूय शाल्वं समरे युद्धाय समवस्थितः
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह
वशीभूताश्च मे सर्वे भूतले च निपातिताः
एतत्कार्यं महाबाहो येनाहं नागमं तदा
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम्