Vana Parva, Adhyaya 12, Verse 1
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत्समागमः
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्
रक्षसा भीमसेनस्य कथमासीत्समागमः
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम्
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः
दूरात्परिहरन्ति स्म पुरुषादभयात्किल
तेषां प्रविशतां तत्र मार्गमावृत्य भारत
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम्
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्
सृजन्तं राक्षसीं मायां महारावविराविणम्
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम्
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत्
तस्योरुवाताभिहता ताम्रपल्लवबाहवः
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान्
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः
तं समासाद्य वित्रस्ता कृष्णा कमललोचना
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्
के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम्
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः
आचचक्षे ततः सर्वं गोत्रनामादि भारत
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः
वनमभ्यागतो घोरमिदं तव परिग्रहम्
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम
उपपादितमद्येह चिरकालान्मनोगतम्
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम्
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्
अनेन हि मम भ्राता बको विनिहतः प्रियः