Mahabharata

Vana Parva, Adhyaya 11

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 11, Verse 1

एवमेतन्महाप्राज्ञ यथा वदसि नो मुने

अहं चैव विजानामि सर्वे चेमे नराधिपाः

Mahabharata

Vana Parva, Adhyaya 11, Verse 2

भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम्

तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने

Mahabharata

Vana Parva, Adhyaya 11, Verse 3

यदि त्वहमनुग्राह्यः कौरवेषु दया यदि

अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम

Mahabharata

Vana Parva, Adhyaya 11, Verse 4

अयमायाति वै राजन्मैत्रेयो भगवानृषिः

अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया

Mahabharata

Vana Parva, Adhyaya 11, Verse 5

एष दुर्योधनं पुत्रं तव राजन्महानृषिः

अनुशास्ता यथान्यायं शमायास्य कुलस्य ते

Mahabharata

Vana Parva, Adhyaya 11, Verse 6

ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया

अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा

Mahabharata

Vana Parva, Adhyaya 11, Verse 7

एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत

पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः

Mahabharata

Vana Parva, Adhyaya 11, Verse 8

दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम्

प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः

Mahabharata

Vana Parva, Adhyaya 11, Verse 9

सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले

कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः

Mahabharata

Vana Parva, Adhyaya 11, Verse 10

समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः

कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति

Mahabharata

Vana Parva, Adhyaya 11, Verse 11

तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम्

यदृच्छया धर्मराजं दृष्टवान्काम्यके वने

Mahabharata

Vana Parva, Adhyaya 11, Verse 12

तं जटाजिनसंवीतं तपोवननिवासिनम्

समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो

Mahabharata

Vana Parva, Adhyaya 11, Verse 13

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्

अनयं द्यूतरूपेण महापायमुपस्थितम्

Mahabharata

Vana Parva, Adhyaya 11, Verse 14

ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया

सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो

Mahabharata

Vana Parva, Adhyaya 11, Verse 15

नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति

यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप

Mahabharata

Vana Parva, Adhyaya 11, Verse 16

मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्

किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे

Mahabharata

Vana Parva, Adhyaya 11, Verse 17

दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन

तेन न भ्राजसे राजंस्तापसानां समागमे

Mahabharata

Vana Parva, Adhyaya 11, Verse 18

ततो व्यावृत्य राजानं दुर्योधनममर्षणम्

उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः

Mahabharata

Vana Parva, Adhyaya 11, Verse 19

दुर्योधन महाबाहो निबोध वदतां वर

वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव

Mahabharata

Vana Parva, Adhyaya 11, Verse 20

मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः

पाण्डवानां कुरूणां च लोकस्य च नरर्षभ

Mahabharata

Vana Parva, Adhyaya 11, Verse 21

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः

सर्वे नागायुतप्राणा वज्रसंहनना दृढाः

Mahabharata

Vana Parva, Adhyaya 11, Verse 22

सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः

हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्

हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः

Mahabharata

Vana Parva, Adhyaya 11, Verse 23

इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम्

आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः

Mahabharata

Vana Parva, Adhyaya 11, Verse 24

तं भीमः समरश्लाघी बलेन बलिनां वरः

जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा

Mahabharata

Vana Parva, Adhyaya 11, Verse 25

पश्य दिग्विजये राजन्यथा भीमेन पातितः

जरासंधो महेष्वासो नागायुतबलो युधि

Mahabharata

Vana Parva, Adhyaya 11, Verse 26

संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः

कस्तान्युधि समासीत जरामरणवान्नरः

Mahabharata

Vana Parva, Adhyaya 11, Verse 27

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ

कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः

Mahabharata

Vana Parva, Adhyaya 11, Verse 28

एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते

ऊरुं गजकराकारं करेणाभिजघान सः

Mahabharata

Vana Parva, Adhyaya 11, Verse 29

दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम्

न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः

Mahabharata

Vana Parva, Adhyaya 11, Verse 30

तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्

दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्