Vana Parva, Adhyaya 10, Verse 1
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम्
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम्
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च
गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम्
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः
अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम्
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम्
सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल
गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्
मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम्
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम्
एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्
अपरोऽल्पबलप्राणः कृशो धमनिसंततः
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने
किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्
चिराय तव पुत्राणां शतमेकश्च पार्थिव
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि
इति दीनेषु पार्थेषु मनो मे परितप्यते
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः