Vana Parva, Adhyaya 9, Verse 1
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम्
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम्
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः
वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम्
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत्
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः
पाण्डवैः सहितो राजन्नेक एवासहायवान्
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर
अथ वा जायमानस्य यच्छीलमनुजायते
श्रूयते तन्महाराज नामृतस्यापसर्पति
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा
भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते