Vana Parva, Adhyaya 8, Verse 1
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः
स सौबलं समानाय्य कर्णदुःशासनावपि
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन
पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम्
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते
गतास्ते समयं कृत्वा नैतदेवं भविष्यति
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्
निरस्य समयं भूयः पणोऽस्माकं भविष्यति
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः
एवमेतन्महाप्राज्ञ यथा वदसि मातुल
नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः
उपलभ्य ततः कर्णो विवृत्य नयने शुभे
रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना
अहो मम मतं यत्तन्निबोधत नराधिपाः
प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः
न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्
यावदेव परिद्यूना यावच्छोकपरायणाः
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा
एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक्
निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः