Mahabharata

Vana Parva, Adhyaya 7

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 7, Verse 1

गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति

धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत

Mahabharata

Vana Parva, Adhyaya 7, Verse 2

स सभाद्वारमागम्य विदुरस्मारमोहितः

समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः

Mahabharata

Vana Parva, Adhyaya 7, Verse 3

स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्

समीपोपस्थितं राजा संजयं वाक्यमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 7, Verse 4

भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः

तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे

Mahabharata

Vana Parva, Adhyaya 7, Verse 5

तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै

इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत्

Mahabharata

Vana Parva, Adhyaya 7, Verse 6

पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः

भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 7, Verse 7

गच्छ संजय जानीहि भ्रातरं विदुरं मम

यदि जीवति रोषेण मया पापेन निर्धुतः

Mahabharata

Vana Parva, Adhyaya 7, Verse 8

न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन

व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना

Mahabharata

Vana Parva, Adhyaya 7, Verse 9

स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्

न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय

Mahabharata

Vana Parva, Adhyaya 7, Verse 10

तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च

संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम्

Mahabharata

Vana Parva, Adhyaya 7, Verse 11

सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः

रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 7, Verse 12

विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः

भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम्

Mahabharata

Vana Parva, Adhyaya 7, Verse 13

युधिष्ठिरमथाभ्येत्य पूजयामास संजयः

भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत

Mahabharata

Vana Parva, Adhyaya 7, Verse 14

राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः

शशंसागमने हेतुमिदं चैवाब्रवीद्वचः

Mahabharata

Vana Parva, Adhyaya 7, Verse 15

राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः

तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम्

Mahabharata

Vana Parva, Adhyaya 7, Verse 16

सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्

नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद

Mahabharata

Vana Parva, Adhyaya 7, Verse 17

एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः

युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्

Mahabharata

Vana Parva, Adhyaya 7, Verse 18

तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान्

दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ

Mahabharata

Vana Parva, Adhyaya 7, Verse 19

अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ

प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः

Mahabharata

Vana Parva, Adhyaya 7, Verse 20

सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह

क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा

Mahabharata

Vana Parva, Adhyaya 7, Verse 21

क्षान्तमेव मया राजन्गुरुर्नः परमो भवान्

तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः

Mahabharata

Vana Parva, Adhyaya 7, Verse 22

भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः

दीनाभिपातिनो राजन्नात्र कार्या विचारणा

Mahabharata

Vana Parva, Adhyaya 7, Verse 23

पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव

दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति

Mahabharata

Vana Parva, Adhyaya 7, Verse 24

अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती

विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्