Mahabharata

Vana Parva, Adhyaya 6

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 6, Verse 1

पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः

प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः

Mahabharata

Vana Parva, Adhyaya 6, Verse 2

सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते

ययुर्वनेनैव वनं सततं पश्चिमां दिशम्

Mahabharata

Vana Parva, Adhyaya 6, Verse 3

ततः सरस्वतीकूले समेषु मरुधन्वसु

काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्

Mahabharata

Vana Parva, Adhyaya 6, Verse 4

तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे

अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत

Mahabharata

Vana Parva, Adhyaya 6, Verse 5

विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः

जगामैकरथेनैव काम्यकं वनमृद्धिमत्

Mahabharata

Vana Parva, Adhyaya 6, Verse 6

ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन

ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च

Mahabharata

Vana Parva, Adhyaya 6, Verse 7

ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसंधः स राजा

अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य

Mahabharata

Vana Parva, Adhyaya 6, Verse 8

कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति

कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम्

Mahabharata

Vana Parva, Adhyaya 6, Verse 9

समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम्

गाण्डीवे वा संशयिते कथंचि;द्राज्यप्राप्तिः संशयिता भवेन्नः

Mahabharata

Vana Parva, Adhyaya 6, Verse 10

तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव

तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात्

Mahabharata

Vana Parva, Adhyaya 6, Verse 11

समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम्

स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः

Mahabharata

Vana Parva, Adhyaya 6, Verse 12

अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्य

एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि

Mahabharata

Vana Parva, Adhyaya 6, Verse 13

मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव

तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये

Mahabharata

Vana Parva, Adhyaya 6, Verse 14

परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः

यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम्

Mahabharata

Vana Parva, Adhyaya 6, Verse 15

न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा

ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः

Mahabharata

Vana Parva, Adhyaya 6, Verse 16

ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति

यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन्

Mahabharata

Vana Parva, Adhyaya 6, Verse 17

ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि

नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा

Mahabharata

Vana Parva, Adhyaya 6, Verse 18

सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान्

तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः

Mahabharata

Vana Parva, Adhyaya 6, Verse 19

क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः

सं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव

Mahabharata

Vana Parva, Adhyaya 6, Verse 20

यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाः

सहायानामेष संग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः

Mahabharata

Vana Parva, Adhyaya 6, Verse 21

सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः

आत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः

Mahabharata

Vana Parva, Adhyaya 6, Verse 22

एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः

यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम्