Mahabharata

Vana Parva, Adhyaya 5

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 5, Verse 1

वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः

धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा

Mahabharata

Vana Parva, Adhyaya 5, Verse 2

प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम्

समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि

Mahabharata

Vana Parva, Adhyaya 5, Verse 3

एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन्

ते चाप्यस्मान्नोद्धरेयुः समूला;न्न कामये तांश्च विनश्यमानान्

Mahabharata

Vana Parva, Adhyaya 5, Verse 4

त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति

धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च

Mahabharata

Vana Parva, Adhyaya 5, Verse 5

स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः

आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसंधं सुतस्ते

Mahabharata

Vana Parva, Adhyaya 5, Verse 6

एतस्य ते दुष्प्रणीतस्य राज;ञ्शेषस्याहं परिपश्याम्युपायम्

यथा पुत्रस्तव कौरव्य पापा;न्मुक्तो लोके प्रतितिष्ठेत साधु

Mahabharata

Vana Parva, Adhyaya 5, Verse 7

तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत्

एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत्

Mahabharata

Vana Parva, Adhyaya 5, Verse 8

एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः

एवं शेषं यदि पुत्रेषु ते स्या;देतद्राजंस्त्वरमाणः कुरुष्व

Mahabharata

Vana Parva, Adhyaya 5, Verse 9

अथैतदेवं न करोषि राज;न्ध्रुवं कुरूणां भविता विनाशः

न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके

Mahabharata

Vana Parva, Adhyaya 5, Verse 10

येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम्

येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति

Mahabharata

Vana Parva, Adhyaya 5, Verse 11

उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम्

पुत्रं त्यजेममहितं कुलस्ये;त्येतद्राजन्न च तत्त्वं चकर्थ

इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात्

Mahabharata

Vana Parva, Adhyaya 5, Verse 12

यद्येतदेवमनुमन्ता सुतस्ते; संप्रीयमाणः पाण्डवैरेकराज्यम्

तापो न ते वै भविता प्रीतियोगा;त्त्वं चेन्न गृह्णासि सुतं सहायैः

अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये

Mahabharata

Vana Parva, Adhyaya 5, Verse 13

अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन्

ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः

Mahabharata

Vana Parva, Adhyaya 5, Verse 14

दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम्

दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च

Mahabharata

Vana Parva, Adhyaya 5, Verse 15

युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य

त्वया पृष्टः किमहमन्यद्वदेय;मेतत्कृत्वा कृतकृत्योऽसि राजन्

Mahabharata

Vana Parva, Adhyaya 5, Verse 16

एतद्वाक्यं विदुर यत्ते सभाया;मिह प्रोक्तं पाण्डवान्प्राप्य मां च

हितं तेषामहितं मामकाना;मेतत्सर्वं मम नोपैति चेतः

Mahabharata

Vana Parva, Adhyaya 5, Verse 17

इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ

तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम्

Mahabharata

Vana Parva, Adhyaya 5, Verse 18

असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः

स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन्

Mahabharata

Vana Parva, Adhyaya 5, Verse 19

स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि

यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति

Mahabharata

Vana Parva, Adhyaya 5, Verse 20

एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य;दन्तर्वेश्म सहसोत्थाय राजन्

नेदमस्तीत्यथ विदुरो भाषमाणः; संप्राद्रवद्यत्र पार्था बभूवुः