Vana Parva, Adhyaya 4, Verse 1
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः
यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः
फलमूलामिषं शाकं संस्कृतं यन्महानसे
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति
धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्
जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः
द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः
महानसे तदान्नं तु साधयामास पाण्डवः
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम्
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान्
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि
शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः
कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः
द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम्