Mahabharata

Vana Parva, Adhyaya 3

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 3, Verse 1

शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः

पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्

Mahabharata

Vana Parva, Adhyaya 3, Verse 2

प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः

न चास्मि पालने शक्तो बहुदुःखसमन्वितः

Mahabharata

Vana Parva, Adhyaya 3, Verse 3

परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे

कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे

Mahabharata

Vana Parva, Adhyaya 3, Verse 4

मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्

युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः

Mahabharata

Vana Parva, Adhyaya 3, Verse 5

पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्

ततोऽनुकम्पया तेषां सविता स्वपिता इव

Mahabharata

Vana Parva, Adhyaya 3, Verse 6

गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः

दक्षिणायनमावृत्तो महीं निविशते रविः

Mahabharata

Vana Parva, Adhyaya 3, Verse 7

क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः

दिवस्तेजः समुद्धृत्य जनयामास वारिणा

Mahabharata

Vana Parva, Adhyaya 3, Verse 8

निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः

ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि

Mahabharata

Vana Parva, Adhyaya 3, Verse 9

एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्

पितैष सर्वभूतानां तस्मात्तं शरणं व्रज

Mahabharata

Vana Parva, Adhyaya 3, Verse 10

राजानो हि महात्मानो योनिकर्मविशोधिताः

उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्

Mahabharata

Vana Parva, Adhyaya 3, Verse 11

भीमेन कार्तवीर्येण वैन्येन नहुषेण च

तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः

Mahabharata

Vana Parva, Adhyaya 3, Verse 12

तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः

तप आस्थाय धर्मेण द्विजातीन्भर भारत

Mahabharata

Vana Parva, Adhyaya 3, Verse 13

एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः

धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम्

Mahabharata

Vana Parva, Adhyaya 3, Verse 14

पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्

योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः

गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान्

Mahabharata

Vana Parva, Adhyaya 3, Verse 15

कथं कुरूणामृषभः स तु राजा युधिष्ठिरः

विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम्

Mahabharata

Vana Parva, Adhyaya 3, Verse 16

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः

क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः

Mahabharata

Vana Parva, Adhyaya 3, Verse 17

धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने

नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते

Mahabharata

Vana Parva, Adhyaya 3, Verse 18

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः

Mahabharata

Vana Parva, Adhyaya 3, Verse 19

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च

Mahabharata

Vana Parva, Adhyaya 3, Verse 20

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः

Mahabharata

Vana Parva, Adhyaya 3, Verse 21

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः

धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः

Mahabharata

Vana Parva, Adhyaya 3, Verse 22

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः

कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा

Mahabharata

Vana Parva, Adhyaya 3, Verse 23

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः

Mahabharata

Vana Parva, Adhyaya 3, Verse 24

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः

वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा

Mahabharata

Vana Parva, Adhyaya 3, Verse 25

भूताश्रयो भूतपतिः सर्वभूतनिषेवितः

मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः

Mahabharata

Vana Parva, Adhyaya 3, Verse 26

जयो विशालो वरदः शीघ्रगः प्राणधारणः

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः

Mahabharata

Vana Parva, Adhyaya 3, Verse 27

द्वादशात्मारविन्दाक्षः पिता माता पितामहः

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्

Mahabharata

Vana Parva, Adhyaya 3, Verse 28

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः

चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः

Mahabharata

Vana Parva, Adhyaya 3, Verse 29

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः

नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना

Mahabharata

Vana Parva, Adhyaya 3, Verse 30

शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम्

धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान्