Mahabharata

Vana Parva, Adhyaya 2

Containing 79 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 2, Verse 1

प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्

वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः

तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 2, Verse 2

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः

फलमूलामिषाहारा वनं यास्याम दुःखिताः

Mahabharata

Vana Parva, Adhyaya 2, Verse 3

वनं च दोषबहुलं बहुव्यालसरीसृपम्

परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति

Mahabharata

Vana Parva, Adhyaya 2, Verse 4

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्

किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः

Mahabharata

Vana Parva, Adhyaya 2, Verse 5

गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः

नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः

Mahabharata

Vana Parva, Adhyaya 2, Verse 6

अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते

विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु

Mahabharata

Vana Parva, Adhyaya 2, Verse 7

ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः

सहायविपरिभ्रंशस्त्वयं सादयतीव माम्

Mahabharata

Vana Parva, Adhyaya 2, Verse 8

आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा

त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः

Mahabharata

Vana Parva, Adhyaya 2, Verse 9

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च

दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे

Mahabharata

Vana Parva, Adhyaya 2, Verse 10

अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव

स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम्

Mahabharata

Vana Parva, Adhyaya 2, Verse 11

अनुध्यानेन जप्येन विधास्यामः शिवं तव

कथाभिश्चानुकूलाभिः सह रंस्यामहे वने

Mahabharata

Vana Parva, Adhyaya 2, Verse 12

एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह

न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः

Mahabharata

Vana Parva, Adhyaya 2, Verse 13

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्

मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्

Mahabharata

Vana Parva, Adhyaya 2, Verse 14

इत्युक्त्वा स नृपः शोचन्निषसाद महीतले

तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः

योगे सांख्ये च कुशलो राजानमिदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 2, Verse 15

शोकस्थानसहस्राणि भयस्थानशतानि च

दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

Mahabharata

Vana Parva, Adhyaya 2, Verse 16

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु

श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

Mahabharata

Vana Parva, Adhyaya 2, Verse 17

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम्

श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता

Mahabharata

Vana Parva, Adhyaya 2, Verse 18

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च

शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः

Mahabharata

Vana Parva, Adhyaya 2, Verse 19

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा

आत्मव्यवस्थानकरा गीताः श्लोका महात्मना

Mahabharata

Vana Parva, Adhyaya 2, Verse 20

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्

तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु

Mahabharata

Vana Parva, Adhyaya 2, Verse 21

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्

दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते

Mahabharata

Vana Parva, Adhyaya 2, Verse 22

तदाशुप्रतिकाराच्च सततं चाविचिन्तनात्

आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु

Mahabharata

Vana Parva, Adhyaya 2, Verse 23

मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते

मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम्

Mahabharata

Vana Parva, Adhyaya 2, Verse 24

मानसेन हि दुःखेन शरीरमुपतप्यते

अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्

Mahabharata

Vana Parva, Adhyaya 2, Verse 25

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना

प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति

Mahabharata

Vana Parva, Adhyaya 2, Verse 26

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते

स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च

Mahabharata

Vana Parva, Adhyaya 2, Verse 27

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च

शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते

Mahabharata

Vana Parva, Adhyaya 2, Verse 28

स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा

अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः

Mahabharata

Vana Parva, Adhyaya 2, Verse 29

कोटराग्निर्यथाशेषं समूलं पादपं दहेत्

धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत्

Mahabharata

Vana Parva, Adhyaya 2, Verse 30

विप्रयोगे न तु त्यागी दोषदर्शी समागमात्

विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः