Sabha Parva, Adhyaya 72, Verse 1
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्
निःश्वसन्तमनेकाग्रमिति होवाच संजयः
अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि
अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति
पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः
तवेदं सुकृतं राजन्महद्वैरं भविष्यति
विनाशः सर्वलोकस्य सानुबन्धो भविष्यति
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयान्नापसर्पति
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः
उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्
कालस्य बलमेतावद्विपरीतार्थदर्शनम्
आसादितमिदं घोरं तुमुलं लोमहर्षणम्
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्
अयोनिजां रूपवतीं कुले जातां विभावरीम्
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्
पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम्
स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम्
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम्
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः
विहीनान्सर्वकामेभ्यो दासभाववशं गतान्
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी
अपि शेषं भवेदद्य पुत्राणां मम संजय
भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे
आसीन्निष्टानको घोरो निर्घातश्च महानभूत्
दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत्
अपर्वणि महाघोरं प्रजानां जनयन्भयम्
तथैव रथशालासु प्रादुरासीद्धुताशनः
ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः
तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम्
प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्
एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता
एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः
तेन सत्याभिसंधेन वासुदेवेन रक्षिताः
आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः